________________
अष्टप्रपञ्च:।
(मु०) अधर्म इति । नरकादिसकलदुःखानां नारकीयशरीरादीनां च साधनमधर्म इत्यर्थः।
[का० ] प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती विमौ गुणौ१६४ (मु० तत्र प्रमाणमाह--प्रायश्चित्तेति । यदि ह्यधर्मो न स्यात्तदाप्रायश्चित्तादिनाश्यत्वं न स्यात् । नहि तेन ब्रह्महननादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते तस्य पूर्वमेव विनष्टत्वादिति भावः ॥ जीवेति । ईश्वरस्य धर्माधर्माभावादिति भावः ॥१६३॥
(प्र० टी० ) अधर्म निरूपयति-परममूले "अधर्म"इति । "निन्दितकमज"इति–वेदादिशामनिषिद्धाभच्यभक्षणागम्यागमनापेयपानलक्षणेभ्यः कर्मभ्यो जायत इत्यर्थः ।
तं प्रमाणेन साधयति-"प्रायश्चित्ते"ति । असावधर्मः प्रायश्चित्तेन मन्वादिधर्मशास्त्रोपदिष्टपापनिवर्त्तकप्राजापत्यादिकर्मविशेषेण नाश्यः । आदिना ज्ञानभोगादि समुच्चयः । “जीवे"ति-जीवात्ममात्राधाराविमौ गुणौ स्तः । “निषिद्धक्रियाजन्यो गुणविशेषो ऽधर्म" इति तु फलितम् ।। १६३ ॥ का० इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः।
(मु०) इमौ धर्माधौं । वासनेति । अतो शानिना कृते अपि सुकृतदुष्कृतकर्मणी न फलायालमिति भावः। शानादपीति । अपिना भोगपरिग्रहः । ननु तत्त्वज्ञानस्य कथं धर्माधर्मनाशकत्वं "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" इति वचनविरोधात् । इत्थं च तत्त्वशानिनां झटिति कायन्यूहेन सकलकर्मणां भोगेन क्षय इति चेन, तत्र भोगस्य वेदबोधितनाशकोपलक्षकत्वात्, कथमन्यथा प्रायश्चित्तादिना कर्मणां नाशः । तदुक्तम्-ज्ञानाग्निः सर्वकर्माणीत्यादिना ।क्षीयन्ते चास्य कपीणि तस्मिन्दृष्टे परावरे इति।
ननु तत्त्वज्ञानिनस्तर्हि शरीरावस्थान सुनदुःखादि च न स्याज्ज्ञानेन च सर्वेषां कर्मणां नाशादिति चेन्न, प्रारब्धेतरकर्मलामेव नाशात् । तत्तच्छरीरभोगजनकं हि यत्कर्म तत्प्रारब्धं तदभिप्रायमेव नाभुक्तमिति वचनमिति ॥
(प्र०टी०) अधर्मस्य नाशकान्तरमप्याह-"ज्ञानादपी"ति । "वासनाजन्या"विति कथनेन ईश्वरे मिथ्याज्ञानजन्यवासनाविरहान्न धर्मादेरुत्पत्ति"रिति भावः। शकते"नन्वि"ति समाधत्ते-“इति चेन्ने"ति । "वेदबोधिते"ति--" नाऽभुक्त" मित्यादिवाक्ये भोगपदं वेदबोधितनाशकहेतूपलक्षकमिति भावः । विपर्यये बाधकमाह--"कथमन्यथेति । अन्यथा = उपलक्षकस्वाभावे । “सर्वकर्माणी"ति--