________________
अष्टनिरूपणम् ।
४२३
वादित्यर्थः । चिन्तामणिकारमतं दर्शयति-"परेत्वि"ति । “तत्स्मरणस्यैवे"ति । तथाच संस्कारजन्यत्वाभावात्प्रत्यभिज्ञायां न स्मृतिलक्षणातिव्याप्तिरिति भावः । पाहुरित्यनेन अस्वरस: । तद्वीजन्तु-त्वन्मतेऽन्तराकल्पनीयस्मृतिव्यकावुबुद्धसंस्कारस्य हेतुत्वकल्पनं, मन्मते तु प्रत्यभिज्ञायां तद्धेतुत्वकल्पनमिति समानम् । अन्त रास्मृतिव्यक्तिकल्पने प्रत्यभिज्ञायां तद्धेतुत्वकल्पने च तवाधिकं गौरवमिति ध्येयम्। . (का०) धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ।।१६।।
गङ्गास्नानादियोगादिव्यापारा स तु कीर्तितः (मु०) अदृष्टं निरूपयति-धर्माधर्माविति । स्वर्गादीति । स्वर्गादिसकलसुखाना खर्गसाधनीभूतशरीरादीनां च साधनं धर्म इत्यर्थः । तत्र प्रमाणं दर्शयितुमाह । यागादीति। यागादिव्यापारतया धर्मः कल्प्यते । अन्यथा यागादीनां चिरविनष्टतया निर्व्यापारतया च कालान्तरभाविस्वर्गजनकत्वं न स्यात् । तदुक्तमाचार्यैः--
चिरध्वस्तं फलायालं न कर्मातिशयं विना । इति । ननु यागध्वंस एव व्यापारः स्यात्, नच प्रतियोगितवंसयोरेकत्राजनकत्वं, सर्वत्र तथात्वे मानाभावात्, नच त्वन्मते फलानन्त्यम्, मन्मते चरमफलस्यापूर्वनाशकत्वान्न तथात्वमिति वाच्यम् , कालविशेषस्य सहकारित्वादित्यत आह-गङ्गास्नानेति । गङ्गास्नानस्य हि स्वर्गजनकत्वेऽनन्तानां जलसंयोगध्वंसानां व्यापरत्वमपेक्ष्यैकमपूर्वमेव कल्प्यते लाघवादिति भावः।
(प्र० टी० ) "अहष्टमि"ति-धर्माधर्मयोरुभयोः “भष्ट"मिति नाम । तत्र को धर्म इत्याकाक्षायामाह-"स्वर्गादीति" । "यागादिव्यापारतये"ति । गङ्गास्नानादेर्यागादेश्च स्वजन्यफलोत्पत्तिं प्रति यो व्यापारः स एव "धर्मः" । प्रादिना होमदानादिपरिग्रहः । अन्यथा = धर्माभावे । “यागादीनामि"ति-अस्यायमाशयः -यदि धर्मो न स्यात् तर्हि शास्त्रादौ प्रतिपादितं यागादेः स्वर्गादिकं प्रति कारणत्वं नोपपद्यते, तेषां चिरविनष्टत्वेन कालान्तरभाविस्वर्गादिफलम्प्रति पूर्ववृत्तिस्वाभावात् स्वाव्यवहितपूर्ववर्तिन एव कारणत्वात् । तस्मात्स्वर्गादिफबलाभाय यागादेयापारतया धर्मः कल्पनीयः । अन्नार्थे उदयनाचार्यसम्मतिमाह-"चिरध्वस्तमिति । फलस्य स्वर्गादेः कालान्तरभावितया न तत्राशुविनाशिनः साक्षात्साधनत्वमिति प्रतीतसाधनखानुपपत्या तज्जन्यापूर्वकल्पनमित्यर्थः। इदञ्च कुसुमाञ्जली प्रथमस्तबक उनम् । "सुखासाधारणकारणतावच्छेदकजातिमत्वं धर्मत्व"मिति धर्मलक्षणम् । विहितक्रियैव स इति मीमांसकाः । मनसः परिणामविशेष इति साङ्ख्याः । चित्तस्यैव