________________
४१२
सविवृतिप्रभोपेताया न्यायसिदान्तमुकावल्या:
[गुणान्ये
उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥१६०॥ (मु०) भावनाख्य इति । तस्य संस्कारस्य । उपेक्षात्मकशानात्सं. स्कारानुत्पत्तरुपेक्षानात्मक इत्युक्तम् । तत्संशयात्तस्यानुत्पत्तोनश्चय इत्युक्तम् । तेनोपेक्षान्यनिश्चयत्वेन संस्कारं प्रति हेतुतेति भावः । नतु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वम् , तेनोपेक्षादिस्थले न स्मरणम् , इत्थं च संस्कार प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेन्न, विनिगमनाविरहेणापि संस्कारं प्रति उपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात् । किञ्चोपे. क्षास्थले संस्कारकल्पनाया गुरुत्वात्संस्कारं प्रति चोपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात् ॥१६॥
(प्र० टी० ) तृतीयं संस्कारमाह-"भावनाख्य"इति । "अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम् । “अतीन्द्रिय"इति । स्मृतिरूपकार्यगम्य इत्यर्थः । मूले “उपेक्षात्मके"ति । असावधानतया यद्वस्तुनो ग्रहणं सोपेक्षा । उपेक्षात्मकेन ज्ञानेन संस्कारो भावनाख्यो नोत्पद्यते, अतस्तद्भिश्नो निश्चयः संस्कारस्य हेतुरित्यर्थः । उपेक्षा नास्ति आत्मा स्वरूपं यस्य सः । अपेक्षासहकृतमेव वस्तुप्रत्यक्ष भावनाजनकमिति भावः । शङ्कते-"नन्धि" ति । "संस्कारं प्रति ज्ञान त्वेने"ति । ज्ञानस्वरूपसामान्यधर्मणेत्यर्थः । समाधत्ते-"इति चेन्न"ति । "विनिगमनाविरहेणे"ति । तथाच न ज्ञानत्वेन कारणतेति भावः । वस्तुतः संस्कारं प्रति उपेक्षान्यनिश्चयत्वेन हेतुत्व एव विनिगमकमस्तीत्याह"किञ्चे"ति ॥१६॥
[का० ] स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते । (मु०) असौ संस्कारः । तत्र प्रमाणं दर्शयति-स्मरण इति । यतः स्मरणं प्रत्यभिज्ञानं च जनयत्यतः संस्कारः कल्प्यते । विना व्यापारं पूर्वानुभवस्य स्मरणादिजननासामर्थ्यात्स्वस्वव्यापारान्यतराभावे कारणत्वासम्भवात् । नच प्रत्यभिज्ञायाः संस्कारजन्यत्वेन स्मृतित्वापत्तिरिति वाच्यम् , अप्रयोजकत्वात् । परे त्वनुबुद्धसंस्कारात्प्रत्यभिज्ञा नुदयादुदबुद्धसंस्कारस्य हेतुत्वापेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञा प्रति हेतुत्वं कल्प्यत इत्याहुः ॥
(प्र० टी० ) "असा"विति । असौ = संस्कारः, स्मरणे = संस्कारमानजन्यज्ञाने “यमहमद्राक्षं तमहं स्मरामी" त्याकारके । प्रत्यभिज्ञायामपि तत्तेदन्तावगाहिज्ञाने “सोऽयं देवदत्त" इत्याकारके कारणमित्यर्थः । इन्द्रियसहकृतसंस्कारजन्यं ज्ञानं प्रत्यभिज्ञा । मूले युक्तिमाह--"विना व्यापार"मिति । शङ्कते-"नचे"ति । समाधत्ते-"अप्रयोजकत्वादि"ति । संस्कारजन्यस्वस्य स्मृतित्वे प्रयोजकत्वाभा