________________
संस्कारप्रपन्चः।
असौ स्नेहः । ननु पृथिव्यामपि तैले स्नेह उपलभ्यते, न चासौ जलीयः, तथा सति दहनप्रातिकूल्यं स्यादत प्राह तैलान्तर इति । तत्प्रकर्षात्नेहप्रकर्षात् । तैले उपलभ्यमानस्नेहोऽपि जलीय एव । तस्य प्रकष्टत्वादग्रानुकल्यम् । अपकृष्टस्नेहं हि जलं वन्हि नाशयतीति भावः ॥ १७॥
(प्र. टी.) "स्नेह" इति । “असावि"ति । तैनादौ प्रतीयमानः । “जलीय" इति--तैलान्तर्गतजलभागनिष्ठः । स्पष्टमन्यत् ॥ १५७ ॥
(का० ) संस्कारभेदो वेगोऽथ स्थिविस्थापकभावने मूर्तमात्रे तु वेगः स्यात्कर्मजो वेगजा कचित् ॥१८॥ (मु०) संस्कारं निरूपयति--संस्कारेति। वेगस्थितिस्थापकभावनाभेदात्संस्कारस्त्रिविध इत्यर्थः । मूर्तमात्र इति । कर्मजवेगजभेदाद्वेगो द्विविध इत्यर्थः। शरीरादौ हि नोदनजनितेन कर्मणा वेगों जन्यते । तेन च पूर्वकर्मनाशस्तत उत्तरं कर्म । एवमग्रेऽपि । विना च वेगं कर्मणः कर्मप्रतिबन्धकत्वात्पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न स्यात् । यत्र वेगवता कपालेन जनिते घटे वेगो जन्यते स वेगजो वेगः ॥१५८॥
(प्र. टी. )संस्कारं विभजते--"संस्कारभेद" इति । वेगोऽपि द्विविधः सस्य विषयतामाह--"मूर्तमात्र"इति । "तेन चे"ति । कर्मनाशाख्यस्योत्तरसंयो. गस्य तदानीमभावात् वेगस्यैव कर्मनाशकत्वं कल्प्यत इति भावः । द्वितीयस्याश्रयतामाह-परममूले “क्वचिदि"ति-कचिदाधारे तिष्ठतीत्यर्थः । वेगवल्कपालजनितघटे यो वेगः स कपालनिष्ठवेगजन्यत्वाद्वेगजो वेग इत्यर्थः ॥ १५८ ॥ (का०) स्थितिस्थापकसंस्कारः धितो केचिचतुर्वपि
अतीन्द्रियोऽसौ विज्ञेयः कचित्स्पन्देऽपि कारणम् ॥१५॥ (मु०) स्थितिस्थापकेति । अतीन्द्रिय इति । आकृष्टशास्त्रादीनां परित्यागे पुनर्गमनस्य स्थितिस्थापकसाध्यत्या केचिदिति । चतुर्यु क्षित्यादिषु स्थितिस्थापकं केचिन्मन्यन्ते तदप्रमाणमिति भावः । असौ स्थितिस्थापकः । क्वचिदाकृष्टशाखादौ ॥ १५६ ॥
(प्र० टी० ) स्थितिस्थापकेति । अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः । यथा-कुसुमानामवचिचीषया कान्तया करेणावनम्रतां नीता कुसुमिततरुशाखा करवियोगे स्थितिस्थापकसंस्कारवशात् सरलीभवति । स्पष्टमन्यत् ॥१६॥ (का०) भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः।