________________
सविवृतिप्रभोपेताया म्यायसिद्धान्तमुक्रावत्याः
[ गुणप्रन्थे
जले च तद्वर्त्तत इत्यर्थः । तद्विभजते--- "अनित्य" इति । श्रनित्ये घटादावनित्यमाश्र - यानित्यत्वात् नित्ये पार्थिवपरमाणौ जलपरमाणौ च नित्यमाश्रयनित्यत्वात् । "तदेवे" ति -- पतनाख्ये श्राद्यपतनक्रियामित्यर्थः । अनन्तरपतने तु द्रव्यक्रियादिकमप्यसमaritraर्थः ।
४५०
(का०) सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथापरम् ॥१५४॥ सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः ।
( मु० ) द्रवत्वं निरूपयति- सांसिद्धिकमिति । द्रवत्वं द्विविधं सांसि - द्धिकं नैमित्तिकं चेति । द्वितीयं नैमित्तिकम् ॥
( प्र० टी० ) द्रवत्वं विभजते--- "सांसिद्धिकमिति । श्राद्यस्थन्दनासमवायिकारणं द्रवत्वमिति तस्य लक्षणम् । स्पष्टम् ।
(का० ) परमाणौ जले नित्यमन्यत्रानित्यमुच्यते || १५५ ।।
(मु० ) परमाणाविति । जलपरमाणौ द्रवत्वं नित्यमित्यर्थः । श्रन्यत्र पृथिवीपरमाण्वादी जलद्वयणुकादौ च द्रवत्वमनित्यम् । कुत्रचितेजसि कुत्रचित्पृथिव्यां च नैमित्तिकं द्रवत्वम् ॥ १५३ - १५५ ।।
( प्र० टी० ) नैमित्तिकमिति - - निमित्तजन्यमित्यर्थः ॥ १५३ – १५१ ॥ (का० ) नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु ।
(मु० ) नैमित्तिकमिति । वह्नीति | अग्निसंयोगजन्यं नैमित्तिकं द्रवत्वम् । तच्च सुवर्णादिरूपे तेजसि घृतजतुप्रभृतिपृथिव्यां च वर्त्तते इत्यर्थः ॥
(का० ) द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्ग्रहे तु तत् ॥ १५६ ॥
( मु० ) द्रवत्वमिति । हेतुरिति । श्रसमवायिकारणमित्यर्थः । सङ्ग्रहे सक्तुकादिसंयोगविशेषे तद्भवत्वं स्नेहसहितमिति बोद्धव्यम् । तेन द्रुतसुवर्णादीनां न सङ्ग्रहः ॥ १५६ ॥
( प्र० टी० ) स्पष्टम् । उक्तञ्चर्षिणा -- सर्पिर्जतुमधूच्छिष्टानामग्निसंयोद्रवत्वमद्भिः सामान्यम् (वै० २ । १ । १ ) सर्पिरादीनां यद् द्रवत्वमस्ति तदनिसंयोगान्निमित्तात् नतु सांसिद्धिकं, तादृशं चापां लक्षणं, द्रवत्वमात्रन्तु पृथिव्या श्रद्भिः सामान्यम्, नतु सांसिद्धिकं द्रवत्वमपीति नापां लक्षणस्य पृथिव्यामतिव्याप्तिरिति सूनार्थः ।
(का० ) स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ तैलान्तरे तत्प्रकर्षाद्दद्दनस्यानुकूलता || १५७ ||
( मु० ) स्नेहं निरूपयति - स्नेह इति । जले इति । जल एवेत्यर्थः ।