________________
गुल्वनिरूपणम् ।
मन्वयव्यतिरेकाभ्यामवधारितमिति भावः ॥ १४१.१५१ ॥
(प्र. टी.) द्वितीये निवृत्तिरूपे प्रयत्ने हेतुमाह-"निवृत्तिस्त्वि "ति । द्विष्टसाधनताज्ञानाद् द्वेषः द्वेषाञ्च निवृत्तिरित्यर्थः । यथा परद्रव्यदारापहरणादौ द्विष्टसा. धनत्वं बन्धनागारपातादिकं ज्ञात्वा द्वेषेण ततो निवर्त्तते एवं सादिदुष्टजन्तुग्रहणे"मामयं दंच्यति" इति ज्ञात्वा ततोऽपसर्पति । एवमन्यत्रापि बोध्यम् । लक्षणन्तु-"द्वेषजनित: प्रयत्नविशेष" इति बोध्यम् । साङ्ख्यास्तु संयोगाभाव एव निवृत्ति" रित्याहुः। "प्रवृत्त्यभाव एव निवृत्ति" रिति केचित् ॥ १४१-१५१ ॥
(का०) यत्नो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत् । (मु०) यत्न इति । जीवनयोनियनो यावज्जीवनमनुवर्तते । स चातीन्द्रियः॥
(का०) शरीरे प्राणसञ्चारे कारणं परिकीर्तितम् ॥ १५२ ॥ (मु०) तत्र प्रमाणमाह-शरीर इति । प्राणसञ्चारो हि अधिकश्वासादिः यत्नसाध्यः । इत्थं च प्राणसञ्चारस्य सर्वस्य यत्नसाध्यत्वानुमानात्प्रत्यक्षयत्नबाधाचातीन्द्रिययत्नसिद्धिः । स एव जीवनयो. नियत्नः ॥ १५२॥
(प्र० टी० ) तृतीयं प्रयनमाह--"जीवनयोनि"रिति । जीवनकारणमित्यर्थः । यावदायुरयं वर्तत इत्यर्थः । अस्मिन् यने प्रमाणं दर्शयति-"शरीर"इति । प्राणसञ्चारे इत्यादेश्यमाशयः--नेत्रनिमीलनोन्मीलनयोरिव श्वासप्रश्वासयोरपि यवसाध्यत्वात् तत्र यो यत्नः स एव जीवनयोनिः । तस्यानुमानविषयत्वात्प्रत्यक्षाभाव इत्याह-"अतीन्द्रिययत्नसिद्धि"रिति । तथाचोकमुपस्कारे-जीवनयोनिश्च यनोऽतीन्द्रियः प्राणसञ्चारानुमेयः कथमन्यथा सुषुप्तायवस्थायामपि श्वासप्रश्वासगतागतमिति भावः ॥ १५२ ॥ (का०) अतीन्द्रियं गुरुत्वं स्थात्पृथिव्यादिद्वये तु तत् ।
अनित्ये तदनित्यं स्यानित्ये नित्यमुदाहृतम् ॥१५३॥
तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि । (मु०) गुरुत्वं निरूपयति-अतीन्द्रियमिति । अनित्ये इति । अनित्ये द्वयणुकादौ तद्गुरुत्वमसमवायि, असमवायिकारणम्। पतनाख्य इति । श्राद्यपतन इत्यर्थः॥
(प्र० टी०) क्रमप्राप्तं गुरुत्वं निरूपयति-"अतीन्द्रियमि"ति । "प्राद्यपतनासमवायिकारणं गुरुत्व"मिति बक्षणम् । तदतीन्द्रियम् रूपादिवत् चधुरादिभिः प्रत्यवं कर्तृमशक्यम् । तस्याश्रयं दर्शयति--"पृथिव्यादिद्वय” इति । पृथियां