________________
सविवृतिप्रभोपेताया न्यायसिदान्तमुक्तावल्या:
[गुवमन्ये
anna
दर्शयति-"वेदेपी"ति । "छन्दांसी"ति पुरुषसूकम् । यजु•३१ । म० ७। वेदस्य सकर्तृकत्वे श्रुतिं प्रदर्श्य स्मृतिमपि प्रदर्शयति- “एवमि"ति । * "प्रतिमन्वन्तरमि"ति । मन्वन्तरं मन्वन्तरं प्रतीति प्रतिमन्वन्तरमिति सर्वकलापदावित्यर्थः । ननु " स्वयम्भूरेष" इत्यादिमहाभारतादौ स्पष्टमेव वेदस्याकर्तृकत्वं तस्कथमुच्यते तस्य पौरुषेयत्वमिति शङ्कायामाह-इति तु वेदस्य स्तुतिमात्रम् । तथाच पूर्वोकश्रुतिस्मृत्योर्विरोधेन अस्य भारतवाक्यस्य न स्वार्थे तात्पर्यमपितु स्तुतिरेव वेदस्येति भावः । शङ्कते-"नचे"ति । भ्रमादिसम्भवात् = पुरुषस्य भ्रमप्रमादलिप्सादिदोषस. म्भवात्तत्कर्तृकत्वे वेदवाक्यस्याप्रामाण्यं स्यादित्यर्थः ।
प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते ॥ ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् ।
आभूतसंप्लवस्थायि वज्यैकं शतरुद्रियम् ॥ विधिोत्रं तथा स्तोत्रं पूर्ववत्सम्प्रवर्तते। दन्यं स्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥ चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् । मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये ॥ प्रवर्त्तयति तषां वै ब्रह्मा स्तोत्रं चतुर्विधम् । एवं मंत्रगुणानाञ्च समुत्पत्तिश्चतुर्विधा ॥ अथर्वयजुषां साम्नां वेदेविह पृथक् पृथक् । ऋषीणां तप्यतामुग्रं तपः परमदुश्चरम् ॥
मंत्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह ॥ इत्यादि । ५६ श्लोकादारभ्य ६० श्लोकाक्तम् । विस्तरस्तु तत्रैव ॥
समाधत्ते-“नित्यसर्वज्ञानत्वेने"ति । नित्यसर्वविषयकज्ञानवत्त्वेन वेदक पर्तुरीश्वरस्य भ्रमादिदोषसम्भावनैव नास्तीति कुतोऽप्रमाण्यापात्तिःतथाच पारमर्ष सूत्रम् "तद्वचनादानायस्य प्रामाण्यम्" (वै० १ । १ । ३) इति तेने श्वरेण प्रणयनादानायस्य वेदस्य प्रामाण्यमित्यर्थः । अत एवेति-नित्यसर्वज्ञत्वाभावादेवेत्यर्थः । स्पष्टमन्यत् । वेदस्य पौरुषेयत्वे युक्त्यन्तरमप्याह-"किश्चे"ति । "तत्सन्दर्भस्येति" । तन्निष्ठानुपूर्वीविशेषस्येत्यर्थः । इति सझेप इति । विस्तरस्तु प्राकारेषु द्रष्टव्य इति भावः । मत्प्रणीत "वेदान्ततत्त्मसमीक्षायां" वा विलोक्यम् । उपादानस्येतीत्याधनार्थम् ।
(का०)निवृत्तिस्तु भवेद्वेषाद्विष्टसाधनताधियः ॥१५॥ (मु०) निवृत्तिरिति । द्विष्टसाधनताशानस्य निवृत्ति प्रति जनकत्व.इदा वायुपुराणे ऋषिलक्षणनामक बनपापण्याय सम् ।
-