________________
विधिवादः।
खद्गकारादौ तदुद्देश्यकत्वाभावान्नास्ति दोष इति भावः । ननु-मरणोद्देश्यकस्वनिवेशे अन्योदेशेन प्रक्षिप्तनाराचेन यत्र ब्राह्मणमृतिः तत्र प्रायश्चित्तं न स्यात् तस्य हिंसात्वाभावेन “मा हिंस्यादि"ति निषेधाविषयत्वादत आह-"अन्योद्देश्य के"ति । वाचनिकमि"ति-स्मृतिवाक्यप्राप्तम् , अर्थात् 'सेतौ च स्नानमात्रेण ब्रह्महत्यां व्यपोहति" इति वचनेन ब्राह्मणमात्रबधस्य सेतुस्नानादिरूपप्रायश्चित्तप्रतिपादनादित्यर्थः। नतु "मा हिंस्यादि"ति निषेधविषयतयेति भावः । तदेतत् खण्डयति सिद्धान्ती-“इति चेन्ने"ति । "श्येनवारणाये"ति-अर्थात् "अदृष्टारकं यच्छत्रुमरणानुकूलं कर्म तद्धिंसे"ति हिंसालक्षणम् । श्येनस्य तु अदृष्टद्वारकत्वेन शत्रुनाशकत्वाद्धिसास्वाभावः। तथाच न तत्र विधिलक्षणाक्रान्तौ दोष इति भावः। - नन्वस्तु श्येनश्य हिंसास्वं किमदृष्टाद्वारकत्वविशेषणेनेति श्रत पाह--"अत. एवे"ति । अदृष्टाद्वारकत्वविशेषणानवशादेवेत्यर्थः । काशीमरणार्थमिति स्पष्टम् । तटस्थः शकते--"नचे"ति। श्येनस्तु न साक्षान्मरणजनको ब्यापार इति न हिंसा किन्तु श्येनजन्यापूर्वमेव मरणजनकमित्यथैः । समाधत्ते-"खड़गाघातेने"ति। "हिंसात्वानापत्ते"रिति । अस्ति सापि क्रिया हिंसास्मिकैव सम्मतेति भावः । एवञ्च हिंसास्वरूपोपसङ्ग्रहाय श्येनादिवारणाय च "अदृष्टाद्वारक" विशेषणं हिंसालक्षणे देयमेवेति भावः । अत एव कर्ममीमांसकाः “चोदनालक्षणोऽर्थो धर्म" ( पू. मी० १।१।२) इत्याधिकरणे "अर्थत्वे सति चोदनागम्यो धर्म" इति धर्मलक्षणमाचदाणा "अर्थो धर्म" इत्युक्ने ब्रह्माणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः तद्वयवच्छेदाय "चोदनागम्य" इत्युक्तम् । "चोदनागम्यो धर्म" इत्युक्त: विधिगम्येऽनर्थफल त्वेनानर्थरूपे श्येनाद्यभिचारकर्मणि अतिव्याप्तिः तद्वयवच्छेदाय "अर्थ" इत्युक्तम् । यद्यपि श्येनस्य शत्रुबधः फलं नतु नरकं तथापि तस्य बधस्य नरकहेतुत्वाद्वधद्वारा श्येनोऽनर्थ इत्याहुः, तस्माद् "अदृष्टाद्वारक" विशेषणं युक्तमेव । सविस्तरं प्रपचितोड यमर्थोऽस्माभिः "प्रस्तावचन्द्रिकायाम्" इति विशेषजिज्ञासवस्तामाखोकयन्तु।
(मु०) केचित्तु श्यनस्य हिंसा फलं न तु मरणम् । तेन श्येनजन्यखगघातादिरूपा हिंसाऽभिचारपदार्थः । तस्य च पापजनकत्वम् । अतः श्यनस्य वैधत्वात्पापाजनकत्वेऽपि अग्रिमपापं प्रतिसन्धाय सन्तो न प्रवर्तन्त इत्याहुः ।
(प्र. टी ) प्रायद्वारकविशेषणं विनैव श्येने बनवदनिष्टाननुबन्धिस्वमुपपादयतां मतमाह-“केविधि"ति । प्राचीनकदेशिनः । हिंसाफलम् साक्षान्मरणफलकम्यापारः फलम्, अर्थात् यं शत्रुमुद्दिश्य श्येनः कृतः तदुपरि खनाघातादिस्तन्मरणकारी जायते एवं सहाघातायेव श्येनफलम् नतु शत्रुमरणात्मकम् । तेन = हेतुना ।