________________
सबिवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्पा [गुरुमन्ये नाराचहतब्राह्मणस्य तु वाचनिकं प्रायश्चित्तमिति चेन्न, श्येनवारणाया. दृष्टाद्वारकत्वेन विशेषणात् । अत एव काशीमरणार्थ कृतशिवपूजादेरपिन हिंसात्वम् । नच साक्षान्मरणजनकस्यैव हिंसात्वं श्येनस्तु न तथा किन्तु तज्जन्यापूर्वमिति वाच्यम्, खगाघातेन ब्राह्मणे व्रणपाकपरम्परया मृते हिंसात्वानापत्तेः।
(प्र० टी० ) विशिष्टस्य विध्यर्थत्वे श्येनयागे बलवदनिष्टाननुवन्धिस्वरूपविशे. षणबाधात् कथं विशिष्टस्य विध्यर्थस्य बोध इत्याक्षिपति-"नन्वि"ति । "श्येने"ति *कर्मनामधेयं यागविशेषस्य । अभिचरन्-वैरिमारणं कामयमानः । “कथमि"ति । श्येने तस्य बाधित्वादिति भावः । स्वप्रतिज्ञायां हेतुमाह-"श्येनस्ये"त्यादि । "हिंसात्वन नरकसाधनत्वादिति । तथाच शावरभाष्यम्-"हिंसा च प्रतिषिद्धे"ति । यस्मान्नरकसाधनं तस्मान्न बलवदनिष्टाननुबन्धि, किन्तु बनवदनिष्टसम्बन्थ्येव श्येनकर्म अतस्तत्र विशिष्टविध्यर्थस्य बाध इति भावः । विशिष्टविध्यर्थवादी शङ्कते-"नच वैधत्वादिति । विधिस्पृष्टे दोषानवकाश इत्यर्थः । यज्ञी यपश्वालम्भनानुरोधेन "मा हिंस्या"दिति निषेधस्य वैधहिंसेतरहिंसापरवादिति भावः । आक्षेप्ता वारयति-"अभिचार"इति । "अभिचारमहीनच त्रिभिः कृच्छय॑पोहति" इति प्रायश्चित्तोपदेशात् श्येनस्यास्त्येव हिंसात्वेन नरकं फलम् , अन्यथा प्रायश्चित्तोपदेश एव व्यर्थः स्यादिति भावः । नन्वेवमग्नीषोमीयहिंसापि नरकसाधने स्यात् , तस्या अपि सामान्यशास्त्रेण निषेधप्रतिपादनादिति चेन्न, मा हिंस्यादितिशास्त्रस्यानुपदिष्टप्रायश्चित्तहिंसेतरहिंसानिषेधपरत्वम्, अग्नीषोमीयहिंसाया अनुपदिष्टप्रायाश्चित्तहिंसारूपत्वेन सामान्यशास्त्राप्रवृत्तेः, श्येननामकाभिचारकर्म तु उपदिष्टप्रायश्चित्तहिंसारूपम्, अतस्तत्र सामान्यशास्त्रप्रवृत्तिरेवेति भावः ।
विशिष्टविध्यर्थवादी हिंसानिर्वचनेन आनेतारं व्याकुलीकर्तुकामः शङ्कते"नचे"ति। "मरणानुकूलव्यापारमात्रं यदि हिंसे"ति-यदि साक्षात्परम्परासाधारणः सर्वोपि व्यापारो हिंसा तदा खनकर्तुः कूपकर्तुश्च हिंसकत्वापत्ति: खोंनापि परम्परया जीवानां हननात् , कूपेपि क्रियमाणे कृते च केषाचिन्मरणदर्शनात् । दोषान्तरमप्याह-"गललग्नान्ने"ति। आता शक्कां निराकुरुते-"मरणोद्देश्यकत्वस्यापी"ति। "मरणोद्देश्यकस्वे सति मरणानुकूलन्यापारत्वं हिंसे"त्यर्थः ।
* एतश्च पूर्वमीमांसाया: प्रथमाध्याये चतुर्थे पादे पञ्चमाधिकरणे “तद्वयपदेशश्च" इति न्यायेन निर्णीतम् । “यथा वै श्येनो निपत्याऽऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन" इति वाक्येनोक्त उपमानोपमेयभावो न कस्मिन्पक्षिणि युज्यते, नचात्रानन्वयः। तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येनशम्दस्याभिचार कर्मनामत्वं तपदेशेन बोध्यम् ।