________________
सविवृतिप्रमोपेताया न्यायसिद्धान्तमुक्रावस्याः
[ गुणप्रम्यै
" श्येनजन्ये" ति - श्येनक्रियाजन्या या खम्माघातादिरूपा क्रिया सैव हिंसा, साच प्रकृते श्रभिचारपदार्थः । " तस्य चे" ति - तस्यैव खड्गाघातादिरूपाभिचारस्य पापजनकत्वं " श्रभिचारमहीन " त्यादिशास्त्रेण पापजनकत्वबोधनात् । नतु साक्षात् श्येनक्रियायास्तत्त्वम्, विधिदृष्टे दोषानवकाश इति मत्वाह - " श्रतः श्येनस्ये” ति । कुतस्तर्द्धास्तिकानां श्येने प्रायिकी न प्रवृत्तिरत आह- " अग्रिमेति । खड्गाद्यभिघातजन्यपापं ज्ञात्वेत्यर्थः । तथा च पातकप्रयोजकत्वान्न तत्रास्तिकानां प्रवृत्तिरिति भावः । * चिन्त्यमिदम् । विस्तरस्तु दिनकर्या द्रष्टव्यः ।
( मु० ) श्राचार्यास्तु श्राप्ताभिप्रायो विध्यर्थः । पाकं कुर्या इत्यादावाज्ञादिरूपेच्छावाचित्ववल्लिङ्मात्रस्येच्छावाचित्वं लाघवात् । एवं च स्वर्गकामो यजेतेत्यादौ यागः स्वर्गकाम कृतिसाध्यतया आप्तेष्ट इत्यर्थः । ततश्चाप्तेष्टत्वेनेष्टसाधनत्यादिकमनुमाय प्रवर्तते । कलञ्जभक्षणे तदभावान्न प्रवर्तते 1
( प्र० टी० ) विध्यर्थश्चाप्ताभिप्राय: । सच स्वष्टसाधनतानुमापकः, इष्टसाधनताज्ञानञ्च प्रवर्त्तकमित्युदयनाचार्यमतमाह — " श्राचार्यास्त्विति । " पाकं कुर्याः” इत्यादिवाक्ये लिङः श्रज्ञादिरूपेच्छावाचित्वम् । तद्वत्सर्वत्रैव लिङ्मात्रस्येच्छावाचकत्वं बोध्यम् । “लाघवादि" ति - बलवदनिष्टाननुबन्धीष्टसाधनत्वाद्यपेक्षया इच्छा त्वेन विधिशक्लौ लाघवादित्यर्थः । वैदिकलिङ्वाक्ये उक्तार्थे शाब्दबोधमाह – “ एवञ्चे" ति । अनुमायेति । तत्प्रकारश्च - " यागो मम स्वर्गकामस्य बलवदनिष्टाननुबन्धीष्टसाधनं मस्कृतिसाध्यतयाप्तेनेष्यमाणत्वात् मन्मात्र कृतिसाध्यतयेष्यमाणमद्भोजनवदिति । कलअभक्षणे तदभावात् श्राप्तेष्टत्वाभावेन तद्धेतुकेष्टसाधनत्वज्ञानाभावान्न प्रवर्त्तते इत्यर्थः । एतच
૪૧૧
विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । श्रभिधेयाऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥
इत्यादिना कुसुमाञ्जल्याः पञ्चमे स्तबके तत्प्रकाशे च बहु विस्तृतं प्रत्यपाचाचार्येण । तत्तत एव कणहत्य निरीक्षणीयम् ।
(मु० ) यस्तु वेदे पौरुषेयत्वं नाभ्युपैति तं प्रति विधिरेव तावद्गर्भ इव श्रुतिकुमार्याः पुंयोगे मानम् । नच कर्त्रस्मरणं बाधकं, कपिलकणादादिभिरद्यपर्यन्तं कर्तृस्मरणस्यैव प्रतीयमानत्वात् । अन्यथा स्मृतीनामध्यकर्तृकत्वापत्तेः । तत्रैव कर्तृस्मरणमस्तीति चेद्वेदेऽपि "छन्दांसि जज्ञिरे तस्मात्" इत्यादिकर्तृस्मरणमस्त्येव । एवं " प्रतिमन्वन्तरं चैषा तत्र प्रवृत्तिदर्शनादुक्तप्रायत्वाच्चेत्याशयवानाह
* उत्कटरागादिनाऽऽस्तिकानामपि
"चिन्त्य" मिति ।