________________
विधवादः ।
( मु० ) तेनानुत्पत्ति प्रत्यवायस्यान्ये मन्यन्ते । एवम्सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ एवम् | दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् ।
इति प्रीत्यात्मकमेव फलमस्तु । नच पितृप्रीतिः कथं फलं व्यधिकरणत्वादिति वाच्यम्, गयाश्राद्धादाविवोद्देश्यत्वसम्बन्धेनैव फल जनक - त्वस्य क्वचित्कल्पनात् । अत एवोक्तं शास्त्र दर्शितफल मनुष्ठान कर्तरीत्युत्सर्ग इति । पितणां मुक्तत्वे तु स्वस्य स्वर्गादिफलं यावन्नित्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गजनकत्वात् । पण्डापूर्वार्थ प्रवृत्तिश्च न सम्भवति नहि तत्सुखदुःखाभाववत्स्वतः पुरुषार्थो न वा तत्साधनम्, प्रत्यवायानुत्पत्तौ कथं प्रवृत्तिरिति चेदित्थम्, यथा हि नित्ये कृते प्रत्यवायाभावस्तिष्ठति तदभावे तदभावः । एवं प्रत्यवायाभावसत्त्वे दुःखप्रागभावसत्वं तदभावे तदभावे इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यपि सुवचत्वात् । एवमेव प्रायश्चित्तस्यापि दुःखप्रागभावहेतुत्वमिति ।
( प्र० टी० ) "तेने 'ति । श्रार्थवादिकफलकल्पने लाघवेन । कामनाभावे प्रवृत्त्यभावेन इति तु वयम् । प्रत्यवायस्य = पापस्य अनुत्पत्तिं नित्यकर्मणां फलमित्यन्ये आचार्या मन्यन्ते । सन्ध्यादिनित्यकर्मणामार्थवादिकफल बोधकवाक्यं दर्शयितुमाह - " एवमिति । दद्यादिति नित्यश्राद्धस्यार्थवादः । श्राद्धस्य पितृतृप्तिरूपं फलमसहमान: शङ्कते - "नचे "ति । शङ्कापक्षे व्यधिकरणत्वादिति हेतु: । नान्यकृतेरन्यः फलं भोक्तुमीष्टे । अनुभवविरुद्धमिति भावः । समाधत्ते “ गया श्राद्धादांविवे”ति । “उद्देश्यत्वसम्बन्धेनैवे 'ति । उद्देश्यतावच्छेदकसम्बन्धद्वारापि क्वचित् फलं कल्प्यते । श्रर्थात् शास्त्रं यदुद्देश्यतावच्छेदकसम्बन्धेन यत्कर्मफलमाह तत्फलं
४४१
यत्
सिद्धान्तस्तु – “ श्रुतानुमानयोः श्रुतसम्बन्धो बलीयान् " इति न्यायेन प्रतिष्ठैव श्रुतं फलं वरं नतु कल्प्यः स्वर्गे दुर्बलत्वात् । यत्तु वर्त्तमानापदेशः तत्र फलत्वसिद्ध्यर्थं सनन्तविपरिणाममात्रं लघीयः । " उपयन्ति" इत्यस्य विधिरूपेण परिणामश्च स्यात् । तदयमर्थः सम्पद्यते - “ये प्रतितिष्ठासन्ति ते एता रात्रीरुपेयुः” इति । अत्र सूत्रे – “क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनि " ॥ क्रतौ = रात्रिसत्रादिके, फलश्रुतिं = पर्यतादावङ्ग इव फलार्थवादे कार्ष्णाजिनिराचार्यौ मन्यते इति पूर्वपक्षे सिद्धान्तमाह – “ फल मात्रोयो निर्देशादश्रुतौ ह्यनुमानं स्यात् " ॥ फलं प्रतिष्ठाफलं बोध्यम् इत्यात्रेयो मन्यते तत्र हेतुः – निर्देशादिति फलत्वेन निर्देशयोग्यत्वादित्यर्थः । अथ विभिप्रत्ययो न श्रूयते इति कथं प्रतिष्ठा फलं विधेयं स्यादित्याह - "अश्रुतौ धनुमानं स्यादिति ॥ विधेयश्रुतावनुमानं स्याल्लाघवेनेति भावः । अधिकं शास्त्रार्थदीपिकादौ द्रष्टव्यम् ।