________________
४४२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[गुणग्रन्थे
तस्यैव भवति, यथा पितृकृताया जातेप्टेरोजस्वितादि पुत्रनिष्ठं फलम् तस्माद्यः करोति स भुन इत्युत्सर्ग एवेति भावः।
"अत एवे"ति । पितृप्रीतेः श्राद्धफलत्वादेवेति वेत्यर्थः । “शास्त्रदेशितं फलमनुष्ठातरि ( ) इतिमीमांसकानामुत्सर्ग एव सच सापवादः एतेन मृतानुद्दिश्य क्रियमाणे श्राद्धकर्म नैव पितृनिष्ठफलकं भवतीति वदन्तः केचनात्यर्वाञ्चः परास्ताः, सामान्यविशेषविधिसत्त्वात् । ननु येषां पितरो मुक्ताः तदर्थं कृतस्य का गतिरिति शङ्कायामाह-'पितृणामि"ति । तत्र हेतुमाह-"यावन्नित्ये"ति । "सामान्यत" इति । विश्वजिन्न्यायेन बोध्यम् ।
सिंहावलोकन्यायेन पुन: प्राभाकरमतं निरस्यति-"पण्डापूर्वार्थमि"ति । अन्न हेतुमाह-"नहीं"ति । सुखे दुःखाभावे सुखसाधने दुःखाभावसाधने वा . पुंसां प्रवृत्तिरिति राजमार्गः। पण्डापूर्वन्तु न कथमपि पुरुषार्थ इति तदर्थ कथं प्रवर्तेत। शङ्कते प्राभाकर:-"प्रत्यवायानुत्पत्तावि"ति। यथा तव नैयायिकस्य मते सन्ध्यादिनित्यफलं प्रत्यवायाभावः सच न सुखं नापि दुःखाभावः, नवा सुखसाधनं दुःखाभावसाधनं तथापि तदर्थं पुरुषः ( द्विजातिः ) सन्ध्यादिषु तत्फलकामः प्रवर्त्तते तद्वन्ममापि किं न स्यादिति भावः । समाधत्ते नैयायिकः-"इत्थमिति । शृणु यथा प्रवृत्तिरस्तीत्यर्थः। यथा हि नित्ये सन्ध्यादिकर्मणि कृत अनुष्ठिते सति तदनुष्ठातरि प्रत्यवायाभावा-प्रत्यवायप्रागभावः तिष्ठति, तदभावे = सन्ध्यावन्दनादिनित्याभावे सति तदननुष्ठातरि पुरुष, तदभावः-प्रत्यवायाभावस्याभावः प्रत्यवायस्वरूपो वर्त्तते । एवमेव प्रत्यवायाभावस्य दुःखप्रागभावेन सह व्याप्तिरस्ति अर्थात् नित्यकर्मानुष्ठानद्वारा यस्मिन् कर्तरि प्रत्यवायाभावो भविष्यति नियमेन तत्र दुःखप्रागभावोऽपि स्थास्यति । यत्र तु प्रत्यवायाभावस्याभावः तत्र दुःखप्रागभावस्याप्यभावः अर्थात् “दुःखमिति" योगसाधारणकारणताया दुःखप्रागभावं प्रत्यपि सुवचस्वात्।
अयमाशयः-अप्राप्तप्राप्तियोगः, प्राप्तस्य संरक्षणं क्षमः । प्रत्यवायाभावो न स्वतः पुरुषार्थो नापिच तत्साधनम् अतस्तस्य प्रवृत्तिम्प्रति कारणता अप्राप्तव तथापि दुःखप्रागभावेन सह तस्य व्याप्तिरस्तीति कृत्वा तस्यापि प्रवृत्तिम्प्रति कारणता नीतैवे. त्ययमेवान योगः । इष्टसाधनताज्ञानस्य प्रवृत्तिम्प्रति हेतुता तु पूर्वसिद्धव परं प्राभाकरकुतर्कनिरासेन तस्या एव यत्प्रकृते संरक्षणं स क्षेमः । अनया रीत्या दुःखप्रागभावेऽपि योगक्षेमसाधारणकारणता सिद्धयतीति कृतं बहुप्रपञ्चेन ग्रन्थगौरवकरेण । उनां रीतिं चान्द्रायणादिप्रायश्चित्तकर्मस्वपि अतिदिशति-"एवमेव प्रायश्चित्तस्यापी"ति । योगक्षेमसाधारणमेवेत्यर्थः ।
(मु०) ननु न कलशं भक्षयदित्यत्र विध्यर्थे कथं नर्थान्वयः, इष्टसाधनत्वाभावस्य कृतिसाध्यत्वाभावस्य च बोधयितुमशक्यत्वादिति