________________
सविवृतिप्रमोपेताया न्यावसिद्धान्तमुक्कावल्या!
[गुरुग्रन्थे
कुलमेकोत्तरं शतम्" इति वचनाद्यानाद्धं काम्यमेव तद्वत् सन्ध्यादीनत्यकर्मस्वपि काम्यत्वनित्यत्वरूपधर्मद्वयसमावेशे नैव विरोधः । यस्तु कामनाभावेऽकरणापत्तिरित्युक्तं तत्राह-"नचे "ति । "त्रिकालस्तवपाठादावि"ति-यथा विष्णुसहस्त्रनामस्तवादिपाठो विभिप्राप्तस्वात् न काम्यं कर्म तथापि फलकामनया पुरुषास्तन प्रवर्त्तन्ते, फलमपि च तथा भवति, तद्वत्सन्ध्यादिनित्यकर्माधिकारेऽपि फलकामना कल्पनीयेति भावः । ननु नित्यगोचरप्रवृत्तौ इष्टसाधनताज्ञानं कारणमेव नेत्यने. नैवोपपत्तौ किमर्थ नित्यस्यापि काम्यत्वं कल्पनीयमत पाह--" नन्वि"ति । "स्वेष्टसाधनत्वमि"ति । अन्वयव्यतिरेकाभ्यां प्रवृत्तित्वावच्छिनं प्रति इष्टसाधनताज्ञानस्य हेतुत्वादिति भावः। ___ यच्च परडापूर्व स्वतः प्रयोजनं नित्यस्य कर्मणः इति प्राभाकरमतं तदपि दूषयति--"यदपी"ति । फलविशेषानाधायकमपूर्व “पण्डाऽपूर्व " मित्युच्यते । अपू. र्वन्तु क्रियाजन्यःसंस्कारविशेषः । इदमेव नित्यस्य सन्ध्यादेः फलं स्यादिति प्राभाकराशयः तन्न युक्नमित्याह--"कामनाभाव" इति । तथासति तेषां नित्यस्वमेव व्याहन्येतेति भावः । अपिच पण्डापूर्वफलकल्पनापेक्षया रात्रिसनन्यायेन प्रार्थवादिक. फलकल्पनमेव वरं नित्यत्वक्षेमकरमित्याशयेनाह--"कामनाकल्पन"इति। __रात्रिसत्रन्यायादि "ति-तथाहि रात्रिसत्रवाच्यानां " ज्योतिौं' रित्यादिवाक्योत्पनकर्मणां फलजिज्ञासायामत्यन्ताश्रुतस्वर्गादिकल्पने गौरवात् विश्वजिन्न्या. यापवादेन "प्रतितिष्ठन्तीह वा य एता रात्रीरुपयन्ती" त्यर्थवादश्रुतौ प्रतिष्ठेव फलमिति सिद्धान्तितं तथाऽनाप्यार्थवादिकब्रह्मलोक एव फलं लाघधादित्यर्थः । अन्यथा = फलाभावे प्रवृत्त्यनुपपत्तेः = सन्ध्यादिषु प्रवृत्तेरभाव: स्यादित्यर्थः।
* भयं रात्रिसत्रन्यायः पूर्वमीमांसायाः चतुर्थाध्यायीयतृतीयपादे सूत्रत्रयात्मकेऽष्टमाधिकरणे प्रपश्चितः । रात्रिशब्देन 'ज्योतिगौराय" रित्यादिवाक्योत्पादितानि सौत्यानि कर्माणि उच्यन्ने तानि च "त्रयोदशरात्रसंशकानि सत्रनाम्नापि व्यवहियन्ते द्वादशसत्रादूर्ध्वभाविनत्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः। त्रयोदशसङ्ख्याका रात्रयो यस्मिन्सत्रविशेषे सोऽयं "त्रयोदरारात्रः। एवमन्यत् । तत्र "प्रतितिष्ठन्ति" "ब्रह्मवर्चस्विनोन्नादा भवन्ति ये एता उपयन्ति" इत्यादीनि वाक्यान्यस्याधिकरणस्य विषयः । तत्र किं प्रतिष्ठारूपफलकथनेन स्तुतिपरमिदं वाक्यं यथा “यस्य पर्णमयीजुहूर्भवति न स पाप ५ श्लोकं शृणोति" इत्यादि वाक्यं पर्णमय्या जुड़ाः स्तावकत्वेन वर्तते नतु फलबोधनतात्पर्यकम् । तत्रापि स्तुतिपरतया विश्वजिनयायेन स्वर्गार्थ मुत ? प्रतिष्ठार्थमिति संशयः। तदर्थः "प्रतितिष्ठन्ति" इति किमयं फलविधिः कल्प्य उतार्थवाद इति । भत्र पूर्वपक्षिणोऽयमाशयः-अपापश्लोकवत् वर्तमानकालिकप्रयोगापदेशात् नेदं वाक्यं फलविधिबोधनसमर्थ किन्तु अर्थवाद एव, ततश्च विश्वजिन्नत्यायेन श्रुत: स्वर्ग एवं कल्प्यः ।