________________
विधिनादः ।
४३२
(प्र० टी० ) नस्वेवं सति "विश्वजिता यजेत" इत्यादौ विशेषतः फलाश्रवणात् इष्टसाधनताज्ञानानुत्पत्त्या प्रवृत्यनुपपत्तिः स्यादत श्राह - " इत्थञ्चे" ति । "यजेत" इत्यादिवाक्येषु विधिप्रत्ययस्येष्टसाधनत्वादिरूपेऽर्थेऽवगते सतीत्यर्थः । तत्रापि स्वर्गः फलं कल्प्यत इति । स्वर्गस्येष्टत्वात् यागस्य च तत्साधनत्वादिति भावः । अयमेव “विश्वजिन्न्याय” इत्युच्यते । श्रस्य प्रपञ्चः पूर्वमीमांसायां दर्शितः "स स्वर्गः सर्वान् प्रत्यविशिष्टत्वात् " | ( ४ अ० । ३ पा० १३ सू० ) इत्यधिकरणे यत्र विश्वजिदादिवाक्येषु फलं न श्रूयते तत्र सर्वाभिलषणीयत्वात्स्वर्ग एव फलं कल्प्यत इत्युक्तसूत्रार्थः । ननु – नित्ये सन्ध्यावन्दनादौ फलाभावान्नेष्टसाधनत्वज्ञानं प्रवर्त्तकं नवा तद्विषयो विध्यर्थ इत्याशयेन ( प्राभाकरमतानुयायी ) शङ्कते " नन्वि" ति ततश्च सन्ध्यादिषु प्रवृत्तिर्न स्यात् कामाश्रवणात् ।
ननु
- सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥
इत्यर्थवादवाक्य बोधितं ब्रह्मलोकप्राप्तिरूपं फलमस्तु नित्यानामत इष्टसाधनत्वधिया प्रवृत्तिर्भविष्यतीत्यत आह - " प्रत्यवायाभावोवे" ति । नित्याकरणे यः प्रत्यवायस्तिष्ठति, तत्करणे नासौ स्यादितीदमेव वा नित्यानां फलमस्त्वित्यर्थः । अन दोषमाह – “तथासती”ति । एवं सति सन्ध्यादीन्यपि काम्यान्येव कर्माणीति मन्यतामिति भाव: । अत्र हेतुमाह — "नित्यत्वहान्यापत्ते "रिति । नित्यत्यकाम्यत्वयोर्विरोध इत्यभिमानः श्रर्थात् सफलत्वे सति विधिप्रतिपाद्यत्वरूपकाम्यस्वस्य निष्पक्षत्वे सति विधिप्रतिपाद्यत्वरूपनित्यत्वस्य च विरोधः । दोषान्तरमध्याह"कामनाभाव" इति । फलेच्छाभाव इत्यर्थः । अकरणे प्रत्यवायानुत्पत्तेरित्यर्थः । कामनाधिकाराभावात् । अनधिकृताकरणस्य प्रत्यवायजनकत्वाभावादिति भावः । फलश्रुतेस्तर्हि का गतिरित्याशङ्कायामाह - "इत्थञ्चे" ति । केवलं नित्यकर्मप्रशंसार्थ तद्वाक्यमिति भावः । सिद्धान्ती खण्डयति - " ने "ति । " ग्रहणश्राद्धादाविति । अस्यायमाशयः- - नित्यश्राद्धमभिष्वात्तादिषड्देवताकं भवति, तथा ग्रहणादिनिमित्तप्राप्तमपि षड्देवताकमेव । श्रर्थात् ग्रहणकालिक श्राद्धे नित्यत्वनैमित्तिकत्वयोरबिरोधो मीमांसकैः स्वीक्रियते--उक्लन्न मात्स्ये -
1
नित्यश्राद्धं न कुर्वीत प्रसङ्गाद्यत्र सिद्ध्यति । श्राद्धान्तरे कृतेऽन्यत्र नित्यत्वात्तच हापयेत् ॥
इति । एवम् -
भरणी पितृपक्षे तु महती परिकीर्त्तिता ।
अस्यां श्राद्धं कृतं येन स गया श्राद्धकृद्भवेत् ॥ इति
भरबीभ्राद्धे नैमित्तिकस्वकाम्यत्वयोरप्यविरोधः । यतः “उद्धरेत् सप्तगोत्राणि