________________
सविवृतिप्रमोपेताया न्यायसिद्धान्तमुक्तावल्याः
- A
NNAWavin
अर्थभावनास्वाक्यातस्वांशेन । तदुकम्
अभिधां भावनामाहरन्यामेव लिडादयः ।
अर्थात्मभावनात्वन्या सर्वाख्यातस्य गोचरः ॥ इति । अभिधा-शब्दः तनिष्ठा भावना अभिधाभावना, अर्थो यागादिरात्मा वा । अर्थास्मकत्वश्चार्थगोचरस्वमाश्रित्वं वा। तथाच यागादिगोचरात्माश्रिता प्रवृत्तिरर्थभावना । अन च शब्दभावनाया अर्थात्मभावनैव भाग्या। अर्थभावनायाश्च फलं स्वर्गादीति बोध्यम् । तदुक्रम्
लिखोऽभिधा सैव च शब्दभावना
__ भाम्या च तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः करणं तदीयं
प्ररोचना चागतयोपयुज्यते ॥ इति । अस्थार्थ:-लिडोऽभिधा वाच्या, तस्याः किं भाव्यमित्याकाङ्क्षायामुक्तं भाव्या च तस्या इति । केन भाज्या इत्याकाङ्क्षायां सम्बन्धेति । सम्बन्धबोधः = निकादिपदशक्निज्ञानम् । तत्रालस्येन निवर्तमानं पुरुषं स्तुतिरुत्तेजयतीति सा सहकारिणीत्याह प्ररोचनेतीति वदन्ति । तन्न-लोके स्वेच्छाधीनप्रवृत्तौ इष्टसाधनताज्ञानस्य हेतुस्वेन ल्कृसत्वादन्यत्रापि प्रवृत्तौ तदेव हेतुरस्तु किमतिरिक्तप्रवर्तनाज्ञानस्यातिरिकहेतुत्वेन, अत एव वेदेऽपि न प्रवर्तनाज्ञानं हेतुः शब्दशक्तिभिन्नायामभिधायां मानाभावाच्च । अत एव विधिविवेके मण्डनमिश्रा:
पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः ।
प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्तनाम् ॥ इत्यादिना प्रवृत्त्यनुकूलत्वेनेष्टसाधनत्वमेव प्रवर्त्तनेत्युक्वन्तः।
(मु०) इत्थं च विश्वजिता यजेतेत्यादौ यत्र फलं न श्रूयते तत्रापि वर्गः फलं कल्प्यते । नन्वहरहः सन्ध्यामुपासीतेत्यादाविष्टानुत्पत्तेः प्रवृत्तिः कथम् ? नचार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावो वा फलमिति वाच्यम्, तथासति काम्यत्वे नित्यत्वहान्यापत्तेः। कामनाभावे चाकरणापत्तेः। इत्थं च यत्र फलश्रुतिस्तत्रार्थवादमात्रमिति चेन्न, ग्रहणश्राद्धादौ नित्यत्वनैमित्तकत्वयोरिव (भरणीश्राद्ध काम्यत्वनैमित्तिकत्वयोरिव ) नित्यत्वकाम्यत्वयोरप्यविरोधात् । नच कामनाभावेऽकरणतापत्तिः, त्रिकालस्तवपाठादाविव कामनासद्भावस्यैव कल्पनात्, नतु वेदबोधितकार्यताज्ञानात्प्रवृत्तिरिति सम्भवति स्वेष्टसाधनत्वमविज्ञाय ताशकार्यताझानसहस्रेणापि प्रवृत्तेरसम्भवात् । यदपि पण्डापूर्व फलमिति तदपि न कामनाभावेऽकरमापत्तेस्तोल्यात् । कामनाकल्पने त्वार्थवादिकफलमेव रात्रिसत्रन्यायात्कल्प्यताम्, अन्यथा प्रवृत्त्यनुपपत्तेः ।