________________
प्रवर्तकज्ञानविचारः (विधिवादः)।
मिति । इष्टम् = पाकादि, तदुत्पत्तिः = तसिद्धिः, तस्या नान्तरीयकम् = अव्यभिचारि अवश्यम्भावि यद् दुःखम् = प्रायासधनव्ययादि, तदधिकं यद् दुःखम् = प्राणपीडादि, तदजनकत्वमेव । अथवा बलवद्वेषविषयदुःखाजनकत्वं बोध्यम् । एतेन मधुविषसम्पृक्कामभोजने प्रवृत्यापत्तिरपास्ता।
(मु०) इष्टसाधनत्वकृतिसाध्यत्वयोर्युगपज्ज्ञातुमशक्यत्वात्साध्यत्वसाधनत्वयोर्विरोधात् । प्रसिद्धस्य हि साध्यत्वं सिद्धस्य च साधनत्वम्। नचैकमेकेनैकदा सिद्धमसिद्धं चेति ज्ञायते, तस्मात्कालभदादुभयं शायत इति । मैवम् ; लाघवेन बलवदनिष्टाननुवन्धीष्टसाधनत्वे सति कृतिसाध्यताशानस्य हेतुत्वात् । नव साध्यत्वसाधनत्वयोर्विरोधो यदा कादचित्साध्यत्वलाधनत्वयोरविरोधादेकदा साध्यत्वसाधनत्वयोश्च ज्ञानात् ।
(प्र० टी० ) मीमांसको निराकुरुते-"इष्टसाधनत्वे"ति । युगपद्एककालावच्छेदेनेत्यर्थः । अत्राथै युक्रिमाह-"साध्यत्वसाधनत्वयो"रिति । घणविशेषघटितयोस्तयोरित्यर्थः । स्वयं विवृणोति-"प्रसिद्धस्ये"ति । प्रथमक्षणवृत्तिपाकादि साध्यं तस्येत्यर्थः । सिद्धस्य = श्राद्यक्षणान्यक्षणवृत्तित्वविशिष्टस्यैवत्यर्थः। यत्तु स्वरूपसम्पन्नं तत्साधनं,यथा अपक्कावस्थापनं परिष्कृततण्डुलादि। यच्च न स्वरूपसम्पन्नं तत्साध्यं यथौदनादि, एवचानयोर्युगपद् विरोधः । एतमर्थ स्पष्टीकरोति-"नचैक"मिति ।
इदमत्राकृतम् -ययेकं वस्तु सिद्धासिद्धोभयरूपेण ज्ञातं स्यात् तदा "असिद्धः पाकः कृतिसाध्यः सिद्धश्चेष्टसाधन" मित्याकारकसमूहालम्बनारमकज्ञानेनैव विषयीकृतं स्यादिति मन्तव्यम्, तत्तु न सम्भवति एकदैकत्र तयोः सहानवस्थानलक्षणविरोधात् । कालभेदेन तूभयं ज्ञानं नानुचितमिति तस्मादुपस्थितिकृतं गौरवं भवन्मते ।
प्राभाकरमतं दूषयति नैयायिकः “मैव" मित्यादिना । साध्यवसाधनत्वयोर्विरोधं दूषयति- "नचे"ति । नहीत्यर्थः । “यदाकदाचिदि"ति-यत्किञ्चित्कालीनस्य साध्यत्वस्य यत्किश्चित्कालीनेन साधनत्वेन सह विरोधाभावादि. त्यर्थः । निर्विशेषितयोः कृतिसाध्यस्वेष्टसाधनस्वयोनिस्यैय प्रवृत्तिम्प्रति हेतुत्वाङ्गी. कारादिति भावः।
(मु०) नव्यास्तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्तकमनागते तस्य ज्ञातुमशक्यत्वात् किन्तु याहशस्य पुंसः कृतिसाध्यं यदृष्टं ताहशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्तते । तेनौदनकामस्य तत्साधनताशानवतस्तदुपकरणवतः पाकः कृतिसाध्यस्तादृशश्चाहमिति प्रतिसन्धाय