________________
४३४
सविवृतिप्रमोपेताया न्यायसिदान्तमुकावयाः
[गुणमन्ये
तेन चन्द्रमण्डलानयनादौ न प्रवृत्तिरिति नैयायिकाशयः। तदुषयति प्राभाकरः"ने"ति । “तदभावापेक्षये"ति-प्रतिबन्धकाभावापेक्षया कृतिसाध्यत्वप्रकार. कज्ञाने कारणतायां लाघवमित्यर्थः । तादृशप्रतिबन्धकाभावविशिष्टकृतिसाध्यत्वप्रकारकज्ञानस्य प्रवृत्तिं प्रति कारणवे गौरवं, केवलं प्रवृत्तिम्प्रति कृतिसाध्यत्वप्रकारकज्ञानस्य कारणतायां लाघवमिति भावः । शङ्कते नैयायिकः-"नचे"ति । द्वयोः= कृतिसाध्यत्वप्रकारकज्ञानस्य इष्टसाधनस्वप्रकारकज्ञानस्य चेत्यर्थः । समाधत्ते प्राभाकर:-"गौरवादि"ति । निरुक्ताभावत्वस्य गुरुरूपत्वादित्यर्थः । पुनः शकते -"नन्वि"ति । त्वन्मतपि = तव प्राभाकरस्य सिद्धान्तेपीत्यर्थः । मधुविषसम्पृक्कानभोजने चैत्यवन्दनादौ बुद्धप्रतिमादिनमस्कारे पुरुषस्य प्रवृत्तिः स्यात् । अत्रार्थे हेतुमाह- "कार्यताज्ञानस्य"ति । “विषसम्भिन्नमधुरान्नभोजनं, बुद्धप्रतिमादिवन्दनञ्च मत्कृतिसाध्यम्" इत्याकारकज्ञानस्य विद्यमानत्वादिस्यर्थः । तथाच समैवावयोराप. त्तिरिति कथमहमेव दूष्य इति भावः । एतत्खण्डयति प्राभाकर:-"इति चेन्न" इति । "स्वविशेषणवत्त"ति-"स्व" प्रवर्त्तमानः पुरुषः तद्विशेषणं काम्ये पुत्रेष्टियागादौ कामना, नित्ये सन्ध्यावन्दनादौ तात्कालिकशौचादि, तद्वत्तायाः= एतादृशविशेषणवत्ताया यदा पुरुषे प्रतिसन्धानं ( स्वस्मिन् ) ज्ञानं जायते तदा तादृशकार्यताविशेषज्ञानस्यैव प्रवर्तकत्वात = प्रवृत्तिं प्रति हेतुत्वात् । तथाच न वयं कार्यतामात्रज्ञानं प्रवर्तकं ब्रमः । अपितु निरुक्तकार्यताविशेषज्ञानं प्रवर्तकत्वेना. ङ्गीकुर्म इति भावः। ___ इदन्तु बोध्यम्-उक्नविशेषणवत्ताज्ञानमपि लिङ्गविधया कार्यताज्ञानकारणम् । तथाहि-"पाको मत्कृतिसाध्यः मत्कृतिं विना ऽसत्त्वेसति मदिष्टसाधनस्वात्" इत्यनुमानजन्यं कार्यताज्ञानं काम्यस्थले प्रवृत्तिं प्रति हेतुः । एवम् "अहमिदानीन्तनकृ. तिसाध्यसन्ध्यावन्दनकः ब्राह्मणत्वे सति विहितसन्ध्याकालिकशौचादिमत्त्वात्" इत्य. नुमानगम्यं कार्यताज्ञानं नित्यकर्मणि प्रवृत्तिम्प्रति कारणमिति । ___ स्वविशेषणवत्तेत्यादिग्रन्थं दर्शिताशयं स्वयं मूल एव विवृणोति-"काम्ये ही" ति । एवं सति फलितमाह-"ततश्चेति, प्रवृत्तिरि"त्यन्तम् । व्यतिरेकेणाप्येतदेव साधयति-"तृप्तश्च"ति । अत्र हेतुमाह-"कामनाया" इति । नित्यस्थलेऽपि घटयति-"नित्येचे"ति । सन्ध्यावन्दनादावित्यर्थः । व्याख्यातप्रायमिदम् । नैयायिकः शङ्कते-"नन्वि"ति । तदपेक्षया = बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताज्ञानजन्यकृतिसाध्यताज्ञानापेक्षया । लाघवेन "बलवदनिष्टे"ति-बलवत् प्रबलं यत् अनिष्टम् = द्वेषविषयः, तदननुबन्धि = तदसम्बन्धि यदिष्टसाधनम् = पाकादीष्टसाधनमिन्धनादि, स्वर्गादीष्टसाधनं यागादि बा, तद्विषयकं यत्कार्यताज्ञानं = कृतिसाध्यताज्ञानं, तत्त्वेनैव हेतुत्वं = प्रवृत्तिम्प्रति कारणस्वमस्त्वित्यर्थः । इष्टसाधनताविशेषणं बलवदनिष्टाननुबन्धिस्वं स्वयं निर्वक्ति -"बलवदनिष्टाननुबन्धित्व"