________________
प्रवर्तकज्ञानविचारः (विधिवादः) ।
४३३
र्षायां तद्वारा च प्रवृतौ हेतुर्नत्विष्टसाधनताज्ञानं तत्र हेतुः । कृत्यसाध्येऽ पिचन्द्रमण्डलानयनादौ प्रवृश्यापत्तेः। ननु कृत्यसाध्यताबानं प्रतिबन्धकमिति चेन्न, तदभावापेक्षया कृतिसाध्यताज्ञानस्य लघुत्वात् । नच द्वयो. रपि हेतुत्वं गौरवात् । ननु त्वन्मतेऽपि मधुविषसम्पृक्तान्नभोजने चैत्यव. न्दने च प्रवृत्यापत्तिः कार्यताज्ञानस्य सत्वादिति चेन्न, स्वविशेषणवत्ताप्रतिसन्धानजन्यकार्यताशानस्य प्रवर्तकत्वात् । काम्ये हि यागपाकादौ कामना स्वविशेषणम् । ततश्च बलवदनिष्टाननुबन्धिकाम्यसाधनता. शानन कार्यताज्ञानम् । ततश्च प्रवृत्तिः । तृप्तश्च भोजने न प्रवर्तते तदानीं कामनायाः पुरुषविशेषणत्वाभावात् । नित्ये च शौचादिकं पुरुषविशेषणम् । तेन शौचादिशानाधीनकृतिसाध्यताज्ञानात्तत्र प्रवृत्तिः। ननु तदपे. क्षया लाघवेन बलवदनिष्टाननुबन्धीष्टसाधनताविषयककार्यताशानत्वेनैव हेतुत्वमस्तु बलवदनिष्टाननुबन्धित्वं चेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वं बलवद्वेषविषय दुःखाजनकत्वं वेति चेन्न ।
(प्र० टी ) प्राभाकरमतमाह-"कार्यताज्ञानमि"ति । (चिकीर्षा द्वारा ) प्रवृत्तिम्प्रति केवलं "कृतिसाध्यताज्ञानमेव हेतु" रिति गुरोर्मीमांसकस्य मतमित्यर्थः। यथाचैतस्मिन्विषये तेषामुपपत्तिस्तथा दर्शयति-"तथाहि" इत्यारभ्य " इति मैवम्" इत्यन्तेन । “ज्ञानस्य"ति-"इदं मत्कृतिसाध्यम्" इत्याकारककृतिसाध्यत्वप्रकारकज्ञानस्य ( कार्यताज्ञानस्य । प्रवृत्ती जननीयायाम् प्रवृत्युत्पत्तावित्यर्थः चिकीर्षातिरिक्तं नापेक्षितमस्ति । साच-चिकीर्षा चेत्यर्थः । कृतिलाध्यताज्ञानसाध्या -कृतिसाध्यत्वप्रकारकज्ञानजन्या । अत्रार्थे नियमं दर्शयति- इच्छाया, इति । चिकीर्षाया इत्यर्थः “स्वप्रकारे"ति-"रवम्" इच्छा = चिकीर्षा प्रकारो विशेषणमेव प्रकारो यस्या एवम्भूता या धीः तत्साध्यत्वनियमात्, अर्थात् “या यद्विशेष्यः कयत्प्रकारिकेच्छा, सा नियमेन तद्विशेष्यकतत्प्रकारकज्ञानजन्या" भवति । निरुता चिकीर्षा स्मारयति-"चिकीर्षा ही"ति । हि- यतः । तथाच यतः चिकीर्षा कृतिसाध्यत्वप्रकारकेच्छारुपेत्यर्थः । "तो"ति । तस्यामिच्छायां = चिकीर्षारूपायामित्यर्थः । कृतिसाध्यत्वं यो धर्मः स एव प्रकाररूपेण भासते। तत्प्रकारकं = ताहशकृतिसाध्यत्वप्रकारकं ज्ञानं चिकीर्षायां साक्षाखेतुः । तद्द्वारा = चिकीर्षाद्वारा च प्रवृत्तौ ( परम्परया) हेतुरिति विभज्यान्वयः । स्वमतमुपपाद्य न्यायमतं खण्डयति"नत्वि"ति । तत्र हेतुः = प्रवृत्तिम्प्रति कारणमित्यर्थः । अत्रार्थे युकिमाह-"कृत्य साध्येपी"ति । पुरुषप्रयत्नासाध्य इत्यर्थः ।
नैयायिक: प्राभाकरम्प्रति शनते-"नन्वि"ति । “कृत्यसाध्यताशानमि"ति । “चन्द्रमण्डलानयनं मत्प्रयत्नासाध्यम्" इत्याकारकं ज्ञानं प्रतिबन्धक