________________
४३२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावयाः
[गुणग्रन्थे
।
दुःखमारमापलब्धवान्, तज्जातीयमेवार्थ पस्यन् हातुमिच्छति, सेयं हातुमिच्छा द्वेष" इति वात्स्यायनादिभाष्यादिसम्मतोऽर्थः । (का०) प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥१४६॥
___ एवं प्रयत्नत्रैविध्यं तान्त्रिकै परिकीर्तितम् । __(मु० ) प्रयत्नं निरूपयति--प्रवृत्तिश्चेति । प्रवृत्तिनिवृत्तिजीवनयोनियत्नभेदात्प्रयत्नास्त्रिविधि इत्यर्थः। __(प्र० टी० ) "प्रयत्न निरूपयति" इति। "प्रयत्नत्वसामान्यवान् उत्साहरूपः प्रयत्न' इति प्रयत्नलक्षणमित्यर्थः। तथाचोक्तं तार्किकरक्षायाम्-"प्रबत्न. स्वात्मधर्मः स्यादुत्साहो भावना च स" इति । (का०) चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ॥१५॥
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ।। चिकीर्षेत्यादि । मधुविषसम्पृतान्नभोजनादौ बलवदनिष्टानुबन्धित्वेन चिकीर्षाभावान्न प्रवृत्तिरिति भावः । कृतिसाध्यताज्ञानादिवदलवदनिष्टाननुबन्धित्वज्ञानमपि स्वतन्त्रान्वयव्यतिरेकाभ्यां प्रवृत्ती कारणमित्यपि वदन्ति ।
(प्र० टी० ) प्रसङ्गात् प्रवृत्तिरूपं प्रयत्न प्रति कारणमाह-"चिकीर्षे" त्यादि । चिकीर्षा पूर्वमुक्ता या सा, कृतिसाध्यताज्ञानम्, इष्टसाधनताज्ञानम् , उपादानस्य = समवायिकारणस्य अध्यक्षम् = प्रत्यक्षम् एतच्चतुष्टयं मिलित्वा प्रवृत्तौ जनकं = कारणमित्यर्थः । मेरुशृङ्गोत्पाटने कृतिसाध्यताज्ञानाभावात् , समुद्रमजने इष्टसाधनताज्ञानाभावात्, द्वयणुकादिनिर्माणे तदुपादानप्रत्यक्षाभावान्न प्रवृत्तिरिति निर्गलितोऽर्थः । तन्तुवायस्य पटे, कुलालस्य घटे तच्चतुष्कस्यैव सत्त्वात्प्रवृत्ति । एवमन्यत्राप्यूह्यम् । अत्र मतान्तरमाह-"कृतिसाध्यताज्ञानादिवदि"ति । यथोक्नचतुष्टयं चिकीर्षाप्रति हेतुः । तथा बलवदनिष्टाजकत्वज्ञानमपि स्वतन्त्रकारणम्, तत्र हेतुमाह-"अन्वयव्यतिरेकादि"ति । किञ्चिदद्वारकान्वयव्यतिरेकज्ञानसहकृतमनः सन्निकर्षादित्यर्थः ।
(मु० ) कार्यताज्ञानं प्रवर्तकमिति गुरवः । तथाहि-ज्ञानस्य प्रवृत्तौ जननीयायां चिकीर्षातिरिक्तं नापेक्षितमस्ति । अर्थात् यद्वस्तुविषयिणीच्छा सा नियमेन तद्विषयकज्ञानजन्या। सा च कृतिसाध्यताज्ञानसाध्या, इच्छायाः स्वप्रकारप्रकारकधीसाध्यत्वनियमात् । चिकीर्षा हि कृतिसा. ध्यत्वप्रकारिकेच्छा । तत्र कृतिसाध्यत्वप्रकारस्तत्प्रकारताशानं चिकी.