________________
द्वेषनिरूपणम् ।
कृतिसाध्येष्टसाधनत्वमतिः कृतिसाधनत्वमतिः कृतिसाध्यताज्ञानम् इष्टसाधनत्वमतिः इष्टसाधनताज्ञानं, तद्धेतुः तस्यां चिकीर्षायां कारणमित्यर्थः । बनवदनिष्टसाधनताज्ञानं तत्र प्रतिबन्धकम् । मुक्तावल्यां चिकीर्षास्वरूपमाह-कृतिसाध्यत्वप्रकारिके"ति । “पाकं कृत्या साधयामि" इति चिकीर्षाया: परिचायकोऽनुभवः । "इदं मस्कृतिसाध्यम्' इत्याकारकं कृतिसाध्यत्वप्रकारकं ज्ञानम्, "इदं मदिष्टसाधनम्" इत्याकारकमिष्टसाधनताज्ञानञ्च उक्तस्वरूपायां चिकीर्षायां निमित्तकारणमित्यर्थः । चिकीर्षाम्प्रति कृतिसाध्यत्वप्रकारकज्ञानस्य कारणतायाः फलमाह-"अतएवे"ति । कृत्यसाध्यत्वप्रकारकज्ञानस्य प्रतिबन्धकत्ववमुत्का कृतिसाज्यस्वप्रकारकज्ञानस्य हेतुत्व. स्वीकारादेवेत्यर्थः।
"न चिकीर्ष"ति-उक्नोभयप्रकारकं ज्ञानं चिकीर्षामानम्प्रति हेतुरित्यन्यतरस्याभावे चिकीव न स्यादिति भावः ॥ १४ ॥ (का०) बलवद्विष्टहेतुत्वमतिः स्यात्प्रतिबन्धिका ।
तदहेतुत्वबुद्धस्तु हेतुत्वं कस्यचिन्मते ॥१४८॥ (मु०) बलवदिति। बलवद्विष्टसाधनताशानं प्रतिबन्धकम् । अतो मधुविषसम्पृक्तानभोजने न चिकीर्षा । बलवद्वेषः प्रतिबन्धक इत्यन्ये ।
तदहेतुत्वेति । बलवदनिष्टाजनकत्वज्ञानं कारणमित्यर्थः ॥१४८॥
(प्र. टी. ) चिकीर्षायाः प्रतिबन्धकमाह- "बलवदि"ति । बलवद्वेषविषय. तावच्छेदकधर्मावच्छिन्ननिरूपितसाधनत्वप्रकारकज्ञानमित्यर्थः । बलवत्वञ्च वैजात्यमेव । तच्च नान्तरीयकदुःखविषयकद्वेषव्यावृत्तम् । 'बलवद्वेष" इति । बलवद्विष्टसाधनत्वज्ञानाधीनद्वेष इत्यर्थः । मतान्तररीत्या प्रतिबन्धकमाह-"तदहेतुत्वबुद्धस्त्वि "ति। "कस्यचिन्मत" इत्यनेनास्वरस: सूचितः। अन्न बीजन्तु-कृतिसाध्यताज्ञानादिमतो बनवदनिष्टसाधताज्ञानशून्यस्य बलवदनिष्टाजनकत्वज्ञानं विनापि चिकीर्षायां विलम्बाभावः। (का०) द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम् ।
द्वेषं निरूपयति-द्विष्टसाधनतेति । दुःखोपायविषकं द्वेषं प्रति बलवद्द्विष्टसाधनताशानं कारणमित्यर्थः। बलवदिष्टसाधनताशानं प्रतिबन्धकम् । तेन नान्तरीयदुःखजनके पाकादौ न द्वेषः ॥
(प्र. टी.) क्रमप्राप्तं द्वेषं निरूपयति-"द्विष्टे"ति । द्विष्टसाधनताज्ञानजन्य. गुणत्वं “द्वेष्टि" इत्यनुभवसिद्धद्वेषत्वजातिमत्वं वा द्वेषलक्षणम्। द्विविधा द्वेषः । दुःखविषयः, तदुपायबिषयश्च । आधे दुःखज्ञानं हेतुः। द्वितीये द्विष्टसाधनताज्ञानं दुःखोपायविषयद्वेषम्प्रति कारणमिति । शिष्टं स्पष्टम् । “यज्जातीयस्यार्थस्य सनिकांद