________________
४३६ सबिवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [गुणग्रन्थे पाके प्रवर्तत इत्याहुस्तन्न, स्वकल्पितलिप्यादिप्रवृत्तौ योधने कामोद्भेदादिना सम्भोगादौ च तदभावात् ।
(प्र० टी० ) प्राभाकरानुयायिनो नवीनस्य मतमाह-"नव्यास्त्वि "ति । " इदं मत्कृतिसाध्यम्" इत्याकारकं ज्ञानं प्रवृत्तिम्प्रति न कारणमित्यर्थः । तत्र हेतुमाह-"अनागत" इत्यादि । 'ज्ञातुमशक्यत्वा"दिति-उकरीत्या भविष्यत्पाकस्य ज्ञानासम्भवेन तद्विशेष्यककृतिसाध्यत्वप्रकारकज्ञानस्य सुतरामसम्भवादित्यर्थः । सामान्यलक्षणाप्रत्यासत्यनङ्गीकारे प्रत्यक्षस्य पक्षज्ञानाभावेन अनुमितेश्चासम्भवादिति भावः । किन्तर्हि प्रवर्तकमित्यत श्राह-"किन्त्वि"ति । तादृशश्चाहम् अर्थात् "श्रोदनकामनावान् अोदनसाधनताज्ञानवान् तथौदनोपकरणवांश्चाह" मित्याकारकं ज्ञानं प्रवर्तकम् । एतत्खण्डयति नैयायिकः-"तन्ने"ति । स्वकल्पित ( संकेतित ) लिप्यादौ तादृशप्रतिसन्धानाभावेपि प्रवृत्तिदर्शनात् तादृशं ज्ञानम्प्रवृत्तिम्प्रति व्यभिचारीति भावः । अत्रैव युक्तयन्तरमाह-"यौवन" इति । सम्भोगादिमतः पुरुषस्य कृतिसाध्यदर्शनमन्तरैव कामवेगेन स्वत एव तत्र प्रवृत्तिदर्शनादपि त्वदुक्तं व्यभिचा. रीति भावः।
(मु०) इदं तु बोध्यम् । इदानीन्तनेष्टसाधनत्वादिज्ञानं प्रवर्तकं तेन भावियौवराज्ये बालस्य न प्रवृत्तिस्तदानीं कृतिसाध्यत्वाऽज्ञानात् । एवं तृप्तश्च भोजने न प्रवर्तते तदानीमिष्टसाधनत्वाज्ञानात् । प्रवर्तते च रोषदूषितचित्तो विषादिभक्षणे तदानीं बलवदनिष्टानुबन्धित्वामानात् । नचास्तिकस्यागम्यागमनशत्रुबधादिप्रवृत्ती कथं बलवदनिष्टाननुबन्धि त्वबुद्धिनरकसाधनत्वज्ञानादिति वाच्यम् , उत्कटरागादिना नरकसाध. नताधीतिरोधानात् वृष्टयादौ तु कृतिसाध्यताज्ञानाभावान्न चिकीर्षाप्रवृत्ती, किन्त्विष्टसाधनताज्ञानादिच्छामात्रम् । कृतिश्च प्रवृत्तिरूपा बोध्या। तेन जीवनयोनियत्नसाध्ये प्राणपञ्चकसञ्चारे न प्रवृत्तिः । इत्थं च प्रवर्तकत्वानुरोधाद्विधेरपीष्टसाधनत्वादिकमेवार्थः।। __ (प्र० टी० ) नन्विष्टसाधनताज्ञानस्य प्रवर्तकत्वे भावियौवराज्येऽपि प्रवृत्त्यापत्तिरिति शङ्कायामाह- "इदन्तु बोध्यमि"ति । "इदानीन्तने"ति । इष्टसाधनत्वे इदानींकालस्यापि विशेषणत्वान्न तन्त्र प्रवृत्तिः अर्थात् “वर्तमानकालविशिष्टेष्टसाधनत्वज्ञानं प्रवृत्तिम्प्रति हेतु"रिति न भावियौवराज्ये प्रवृत्तिः। वस्तुतस्त्वेवं लाप्यम्-इदानीन्तनेच्छाविषयसाधनत्वेदानीन्तनकृतिसाध्यत्वेदानीन्तनबलवद्वेषविषयाननुबन्धित्वैतत्रितयविषयकज्ञानं प्रवर्तकम् । इष्टसाधनत्वघटकेच्छायां तद्विशेषणस्य प्रयोजनमाह"एवं तृप्त" इति । "बलवदनिष्टे"त्यत्र बलवद्वेषे तद्विशेषणप्रयोजनमाह-"प्रवततेचे"ति । दोषषितेति--दोषेण सुरापानादिना दूषितं गर्हितं चित्तं यस्य स