________________
न्यायमभर्याम्
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते ।
अनुविद्धिमिव ज्ञानं सर्व शब्देन गृह्यते॥ तस्मात्प्रत्यक्षस्य लक्ष्यस्यासद्भवात्कस्येदं लक्षणमुपक्रान्तमिति असम्भवदोषमाशङ्कयाह सूत्रकारः अव्यपदेश्यमिति, यदिदमविदितपदपदार्थसंबन्धस्य ज्ञानमुत्पद्यते विदितसंबन्धस्यापि वा यत्प्रथमाक्षसन्निपातसमये एव ज्ञानमनुल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते तदशाब्दम् अशब्दावच्छिन्न. विषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षककरणमविकल्पं प्रत्यक्षम् , न च शब्दकृता बुद्धीनां प्रकाशस्वभावता, स्वत एव तासामेवंरूपत्वात्, न च निर्विकल्पकसमये यत्किं चिदिदमित्यादिसामान्यशब्दोल्लेखः कोऽपि कैश्चिदनुभूयते तस्माद् गौरित्यादिज्ञानानां शाब्दत्वे ऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावान व्यर्थ लक्षणमित्येवमसम्भवदोषनिराकरणार्थमव्यपदेश्यपदमिति, वाच्यार्थप्रत्यये वाचकशब्दस्याविषयत्वेनासम्भवदोषनिरासः
तदेतदाचार्या न क्षमन्ते न गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमपीदं शाब्दमिति वक्तं युक्तम् न चात्र शब्दावच्छिन्नार्थः प्रकाशते तथाविधार्थग्रहणे करणाभावाद्, विशेषार्थप्रमितो तावच्छब्दः करणम् , विशेषणभूतस्य तु शब्दस्य ग्रहणे किं करणमिति निरूप्यताम् , न श्रोत्रं विरम्य व्यापारासंवेदनात् संबन्धग्रहणादूर्व च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रं करणमाशङ्कितुमपि न युक्तम् , नापि मनो बाह्यकरणनिपेक्षं बाह्ये विषये धियः माधातुमलम् अन्धाद्यभावप्रसङ्गात् । .
ननु शब्द एव करणमित्युक्त तत्किमपरकरणाशङ्कनेन, मैवम्-एकस्य कारकस्यैकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः, सवितृप्रकाशवदिति चेद् न क्रियाभेदाद् यत्रासो करणं न तत्र कर्म यत्र वा कम न तत्र करणमिति, घटादिविषयप्रमितिजन्मनि करणमेव तरणिप्रकाशो न कर्म तद्ग्रहणकाले तु कर्मैवासो न करणम् , किं तर्हि तत्र करणमिति चेत् केवलमेव चक्षुरिति ब्रूमः आलाकग्रहणे चक्षुषः प्रकाशान्तरनिरपेक्षत्वात् , कथमेवमिति चेद् अपर्यनुयोज्या हि वस्तुशक्तिः घटादिग्रहणे चक्षुरुयोतमपेक्षते नोयोताहणे इति कमनुयुजमहे, सो ऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षरिन्द्रियप्रथमगृहीतः चिरमवतिष्ठमानस्तदिन्द्रियग्राह्य एकविषये गृह्यमाणे करणतामुपयातीति युक्तम् , शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्यस्तदितरपरिच्छेदे विषये तदवगमक्रियायां करणीभूय भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत् , शब्दो हि धूमादिवदुपाय एव नोपेयः स उपायत्वात्प्रथमं गृह्यतां नाम न उपेयग्रहणकाले पुनर्ग्रहणमहति धूमवदेवेति, एवं स्मर्यमाणो ऽपि शब्दो यत्रार्थप्रतीतिकारणं