________________
प्रमाणप्रकरणम्
तत्रापि प्रथमं शब्दस्मरणं ततः शब्दार्थसम्प्रत्ययो भवति नतरां तत्रार्थप्रती. तिवेलायां शब्दग्रहणं सम्भाव्यते, तस्मान्नास्ति वाचकविशेषितवाच्यप्रतिभासः, अपि च गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायि प्रसभं त. कथं शाब्दमित्युच्यते।
शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् ।
तदेव यदि ते शाब्दमहो नैयायिको भवान् ॥ ननु शब्दावच्छिन्नमर्थ न चक्षुः श्रोत्रयोरन्यतरदपि करणं ग्रहीतुमलमित्युक्तम् , भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे ।
ननु नाविषये युक्तमिन्द्रियस्य प्रवर्तनम् । तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं वे ॥ मरीचिषु जलज्ञानं कथमिन्द्रियजं तव। तत्रापि हि न तोयेन सन्निकर्षों ऽस्ति चक्षषः ।। ननु च स्मृत्युपारूढमुदकं तत्र गृह्यते । इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ॥ ननु शब्दो न नेत्रस्य कदा चिदपि गोचरः । असंन्निहितमप्यम्बु किं वा भवति गोचरः ।। नन्वेकेन्द्रि यवादः स्याच्चक्षषा शब्दवेदने।
अत्रापि सर्वबोधः स्यादसन्निहितवेदने॥ ननु च मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्तीक्रियते, कथमस्य भ्रा. न्तत्वं किमनिन्द्रियजत्वादुत व्यभिचारित्वात् , तत्रानिन्द्रि यजत्वेनास्य भ्रान्त. तायामिन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव निरासादव्यभिचारिपदमनुपादेयमिति, तदुपादानात्त व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियजमसन्निहितस. लिलज्ञानमभ्युपगन्तव्यम् ।
यथा चाविषये तस्मिन्नीरे नयनजा मतिः । तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ।। यथा च तव कालादि नीरूपमपि चाक्षुषम् ।
तथा शब्दानुरक्तो ऽपि किमित्यर्थो न चाक्षुषः॥ एवं हीन्द्रियव्यतिरेकानुविधानमत्र न बाधितं भविष्यति ।
ननु चाक्षषतां शब्दे न जीवन्वक्तुमुत्सहे । त्यजैनं वाचकोपेतवाच्यावगमदुग्रहम् ।। अपि चामुष्य शाब्दत्वे संबन्धग्रहणं कथम् । न चागृहीतसंबन्धः शब्दो भवति वाचकः ॥