________________
७८
न्यायमञ्जयाम्
निर्विकल्पकविज्ञानविषये न च तद्ग्रहः । शाब्दपक्षे तु निक्षिप्तं भवता सविकल्पकम् ।। संबन्धः शक्यते बोद्धं न च मानान्तराद्विना । शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयम् ॥ न च शब्दोपरक्ते ऽर्थे संबन्धं बुध्यते जनः ।
गो शब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत् ।। वाच्यस्य हि गवादे!शब्दविशेषितस्य वाच्यत्वाद्वाच्यो ऽर्थ इव गोशब्दो ऽपि वाच्यतामवलम्बते ।
यदि च स्वानुरागेण वाचकाद्वाच्यदेदनम् । लिङ्गादपि भवेद् बुद्धिः स्वावच्छेदेन लिङ्गिनि ।। अथ धूमान्वितत्वेन न वह्निरवगम्यते । इहापि शब्दयोगेन गवादिनव गम्यते ।। न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन । यदि स्यानिर्विकल्पे ऽपि प्रतिभासेत रूपवत्।। अथासंस्पर्शिनः शब्दान्कथयन् दुष्टसौगतः । प्रत्यक्षास्त्रेण भेत्तव्यः स कथं हन्यते त्वया । प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः ।
तेषां यद्विषये वृत्तिस्तद्वि शाब्दीकृतं त्वया ।। अपि च विषयभेदेन प्रतिभासभेदो भवतीति दुराशया शब्दविशिष्टमर्थ नि. विकल्पात सविकल्पस्य विषयमधिकं पश्यति भवाननेनैव च वर्त्मना ऽवतरन्परं शब्दाध्यासं न पश्यतीति को ऽयं व्यामोहः, स त्वं वचनीयो ऽसि संवृत्तः 'मधु पश्यसि दुर्बुद्धे प्रपातं नैव पश्यसि' इति ।
तस्माद्गौरिति विज्ञानं प्रत्यक्षमवधार्यताम् । शब्दस्मरणसापेक्षचक्षरिन्द्रियनिर्मितम् ॥ मानसत्वं तु यत्तस्य नेष्यते युक्तमेव तत् ।
तद्भावानुविधायित्वाद् बाह्येन्द्रियजमेव तत् ।। शब्दस्य विशेषणतया प्रत्यक्षविषयत्वेन प्रसक्तासम्भवदोषवारणा
थमव्यपदेश्यपदम्-- अत्र पुनः प्रवराः प्राहुः, नन्वेवं गौरित्यादिबोधेषु वाचकावच्छिन्नवाच्यप्रतिभासे सर्वप्रकारमपाक्रियमाणे प्रथमाक्षसंनिपातसमयमासादितसद्भावनिर्वि. ल्पकवेदनवैलक्षण्यं कथमेषां भवेत् , न हि विषयातिशयमन्तरेण प्रतिभासाति