________________
प्रमाणपकरणम्
शयो भवितुमर्हति, दण्डीति दण्डविशिष्टः पुरुषः प्रतिभासते इतरथा न केवलपुरुषप्रतीतेरेषा प्रतीतिविशिष्यते उभयप्रतिभासे ऽपि न दण्डपुरुषाविति प्रतीतेः विशेषणविशेष्यभावस्य नियामकत्वात् ।
पूर्वापरचिरक्षिप्रक्रमाद्यवगमेष्वपि । दिक्कालादिविशिष्टो ऽर्थः स्फुरत्यतिशयग्रहात् ॥ प्रत्यक्षः किं स कालादिः प्रतीति पृच्छ किं मया । गृह्यते तद्विशिष्टो ऽर्थः स च नेत्येतदद्भुतम् ।। एतेन समवाये ऽपि प्रत्यक्षत्वं प्रकाशितम् ।
इहेति तन्तुसंबद्धपटप्रत्ययदर्शनात् ॥ अयं पट इति प्रत्ययादिह तन्तुषु पट इति विलक्षण एष प्रत्ययः तन्तुपटसंबन्धस्य विशेषणस्याप्रत्यक्षतायां न केवलपटप्रत्ययाद्विशिष्यतेति, अथ मतम् उपायभेदात्प्रतीतिभेदो भवति दूराविदूरदेशव्यवस्थितस्थाण्वादिपदार्थप्रतीतिवत् संस्कृतासंस्कृताक्षकरणविषयबोधवद्वति, तदसांप्रतम् , उपायभेदे ऽपि तद्भेदासि. द्धेः, उपायो बुद्धावतिशयमादधाति न विषये विषयावगतिसमये च न बुद्धिरव. भातीति नैयायिकाः, तदयमतिशयो यदधिकरणस्सा न प्रतिभासते बुद्धिः यच्च तदानीमवभासते विषयः तत्रातिशयो नास्ति दृश्यते चातिशयसंवेदनमिति सङ्कटः पन्थाः, न च दूराविदूरदेशवत्तिनि पदार्थे प्रतीतिरुपायभेदाद्भिद्यते, सापि हि विषयभेदादेव भिद्यते।
दूराद्धि वस्तुसामान्यं धर्ममात्रोपलक्षितम् ।
अदूरतस्तु विस्पष्टविशेषमवसीयते ।। यथा माघेन वर्णितम्
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः॥ क्रियान्तराणां वैचित्र्ये यद्वा तद्वा ऽस्तु कारणम् ।
भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥ शब्दस्य विशेषणतया प्रत्यक्षाविषयत्वेनासम्भवदोषनिरास:
तदेतदाचार्या प्रतिसमादधते-न विषयभेदादेव प्रतिभासभेदः किं तूपायभेदाद्भवत्येव, यच्च चोदित विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासादतिशयव. चने सङ्कटः पन्था इति तदविदितनयायिकदर्शनस्यैव चोद्यम् , ज्ञानोत्पाद एव विषयस्य प्रत्यक्षतेति नो दर्शनं न ज्ञानग्रहणमिति, तत्र यथा पुरुष इति निरति. शयज्ञानमात्रोत्पादे तावन्मात्रविषयप्रत्यक्षता भवति न तत्र ज्ञानं प्रकाशते अगह्यमाणे ऽपि ज्ञाने विषय एव प्रतिभासते एवं दण्डीति शुक्लवासा इति विशेष.