SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जयम् ज्ञानाभ्युपायातिशयवशात् सातिशयप्रत्यय जनने तदग्रहणे स एव विषयो वभासते इति कियानेष सङ्कटः पन्थाः, तथा च दण्डीति पुरुषप्रवणैव मतिः को दण्डी पुरुषः कः पुरुषो दण्डीति सामानाधिकरण्येन निः सन्धिबन्धस्य पुंस एव प्रतिभासात् एवं दण्डिनं भोजय दण्डिने देहीति भोजनादिकार्ययोगित्वं न दण्डे दृश्यते ऽपि तु पुंस्येव, " ८० १० ननु दण्डी पर्वतमारोहतीति दण्डेऽपि कार्यान्वयो दृश्यते लोके वेदे sपि दण्डी मैत्रावरुणः प्रेषानन्वाहेति प्रेषानुवचनस्य वचनान्तरतः प्राप्तेर्दण्डवि धानार्थमेतद्वाक्यं भवति यथा लोहितोष्णीषा ऋत्विजः प्रचरन्तीति श्येनादौऋत्विजां प्रकृतिवद्भावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतद्भवति, उच्यतेभवत्वेवं किं तु दण्डमवम्ब्य पुरुषः पर्वतमारोहति न दण्डो निश्चेतनः वेदे Sपि दण्डपाणिः पुरुषः प्रेषाननुभाषते न दण्डः न लोहिता उष्णीषाः प्रचरन्ति किंतु अन्यपदार्थीभूता ऋत्विज एवेति सर्वत्र विशेष्यप्रवणैव मतिः उभयप्रतिभाने तु दण्डपुरुषाविति स्यान्न दण्डीति, विशेषणविशेष्यभावस्य नियाम कत्वादिति चेत् सेयं विशेष्यप्रवणा मतिरुक्तैव भवति, विशेषणस्य विशेष१५ णत्वेनैवोपसर्जनत्वाद्दण्डो ऽस्यास्तीति पुरुष एवोच्यते न दण्डपुरुषौ, एवं पूर्वापरादिप्रत्ययाश्चिरक्षिप्रादिप्रत्यया इह तन्तुषु पट इत्यादिप्रत्ययाश्च दिक्का • लसमवायग्राहिणः, त इमे दिकालसमवायाः सामग्य्यन्तर्गताः सन्तः प्रत्ययातिशय मादद्धति न तद्विषये भवन्ति पटादिद्रव्यवत्, एवं पतनाद्यनु मेयगुरुत्वादिकारणभेदजनिता गुरुः पाषाण इत्यादिप्रत्ययाः परोक्षविशेषणं विशेष्यमवल२० म्बन्ते इत्यलं विस्तरेण । २५ तस्माद्गौरित्यादिज्ञानं न वाचकावच्छिन्नवाच्यविषयम् अतश्च न शाब्दं तत्, अपि तु सुस्पष्टं प्रत्यक्षमेव, तस्मिंश्च लक्षिते सति लक्षरणवैयर्थ्यशङ्काकरणाभावान्नासम्भवदोष निराकारणार्थमव्यपदेश्यपदम् । अव्यपदेश्यपदस्याचार्यमतेन प्रयोजनप्रदर्शनम् -- किमर्थं तर्हीदमस्तु, उक्तमाचार्यैः उभयजज्ञानव्यवच्छेदार्थमिति, ननु तदपि प्रत्यक्षमेवेति, अनपोह्यमुक्तम्, पुरोऽवस्थितगत्रादिपदार्थस्वरूपमात्रग्रहणनिष्ठितसामर्थ्यमत्र प्रत्यक्षम्, गोशब्दवाच्यतायां तु संज्ञाकर्मोपदेशी शब्द एव प्रमाणम्, यद्यपि शब्दार्थसम्बन्धपरिच्छेदे गत्यन्तरमपि सम्भवति तथा ऽपि यत्र तावत् संज्ञिनं निर्दिश्य सन्ज्ञा वृद्धैरुपदिश्यते गोशब्दवाच्यो ऽयं प शब्दवाच्योऽयमिति तत्र तद्वाच्यतापरिच्छेदे स एव कारणम् । अत एव च लोको sपि शाब्दत्वमभिमन्यते । शब्दोपरचितापूर्वज्ञानातिशयतोषितः । ३०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy