________________
प्रमाणप्रकरणम्
तच्छब्दवाच्यताज्ञप्तिविना संज्ञोपदेशिनः । शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥ अतः सूत्रकृताऽप्यत्र शब्दातिशयदर्शनाद् ।
व्यधायि तद्व्यवच्छेदो न तु धर्मोपदेशिना ।। तस्मादुभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति ।
अव्यपदेश्यपदस्य मतान्तरेण प्रयोजनप्रदर्शनम्-- अन्ये मन्यन्ते यदि संकेतग्रहणकाले भाविनः संज्ञोपदेशकवचनजनित. स्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदं तदा तदव्यवहारकाले ऽपि यदयं गोरिति संकेतग्रहणकालानुभूतदेवदत्ताधुदीरितसंझोपदेशकवचनस्मरणपूर्वकं विज्ञानमुत्पद्यते तदप्युभयजमेवेति कथमनेन न व्युदस्यते ।
ननु तत्र शब्दस्मरणं कारणं न शब्दः संकेतकाले ऽपि शब्दस्मरणमेव कारणं न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते अन्त्यवर्णे तु गृहय. माणे स्मर्यमाणे वा किं शब्दव्यापारो विशिष्यते। . __ ननु व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाणमिन्द्रियेण सह सविकल्पप्रत्ययोदये व्याप्रियते संकेतकाले तु संज्ञोपदेशि बृद्धवाक्यमिति चेन्मै. वम् , व्यवहारकाले ऽपि संज्ञोपदेशकं वृद्धवाक्यमेव स्मर्यते तदस्मरणे तच्छब्दवाच्यताऽनवगमात् , अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीदित्येवमनुस्मृ. त्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं ज्ञानम् ।
तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम् । हेतुतामुपयातीति शाब्दमेतदपीष्यताम् ।। एवमस्त्विति चेच्छान्तमेवं सति तपस्विनाम् । नैयायिकानामुत्पन्न प्रत्यक्ष सविकल्पकम् ।। यत्र मार्गान्तरेणापि संकेतज्ञानसम्भवः ।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ।। नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः तस्मान्नोभयजस्य शान्दत्वं शानस्य वक्तव्यम, संबन्धाधिगमस्तु नानाप्रमाणकः, तत्र स्वे स्खे विषये त. त्तत्प्रमाणं प्रवर्तते, यथाह भट्टः संबन्धस्त्रिप्रमाणक इति, तस्मान्नकस्य शब्दस्य भार आरोपणीयः , प्रत्यक्षं तु संकेतग्रहणकाले ऽपि स्वविषयग्राहकम् इदानीमपि व्यवहारकाले ऽपि तत्स्वविषयग्राहकमिति नोभयजज्ञानव्यवच्छेदपक्षो निरवद्यः, तस्माद्वरं जरन्नैयायिक कथितशब्दकर्मतापत्रज्ञानव्यवच्छेद एवाश्री. यताम् , तत्र तावत्कर्मणि कृत्ये कृते व्यपदेश्यशब्दो यथार्थतरो भवति ।। ननु तत्र चोदितं न तादृशं ज्ञानमप्रमाणं न पञ्चमं प्रमाणमिति, सत्यम् , ११ न्या