________________
८२
न्यायमञ्जर्याम्
अयं तु तेषामाशयः, रूपादिविषयग्रहणाभिमुखं हि तदक्षजं ज्ञानं प्रमाणं वा फलं वोच्यते यदा तु तदेव शब्देनोच्यते रूपज्ञानं रसज्ञानमिति तदा रूपादिचानविषयग्रहणव्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मताssपत्तिकृतां प्रमेयतामेवावलम्बतइति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्ग इति,
अपर, सविकल्पकस्य शब्दसंकल्पकस्य शब्दसंसर्गसापेक्षजन्मनः प्रत्यक्षज्ञानस्य शाब्दतां पूर्ववदाशङ्कय तस्यैवाशाब्दतां दर्शयत्यव्यपदेश्यपदेन सूत्रकारः, प्रत्यक्षमेव तज्ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वादव्यपदेश्यम. शाब्दमित्यर्थः ।
स्पष्टत्वाद् वाचकाभावादिन्द्रियानुविधानतः । लोकस्य संमतत्वाच्च प्रत्यक्ष मिदमिष्यते ॥ शब्दानुस्मृतिजवे ऽपि न शाब्दं ज्ञानमीदृशम् । शब्दस्मृतिः सहायः स्यादिन्द्रियस्य प्रदीपवत् | नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते । नेदानीं संगृहीतं स्यात्प्रत्यक्षं निर्विकल्पकम् ॥ यत्तु शब्दानुवेधेन शाब्दत्वं सविकल्पके । कश्चिदाशङ्कते तस्य प्रतिशब्दो ऽयमुच्यते ॥ यत्र शब्दानुवेधे ऽपि प्रत्यक्षं ज्ञानमिष्यते । तत्र तत्स्पर्शशून्यस्य तथात्वे का विचारणा ॥ निर्विकल्पकवत्तस्मात्प्रत्यक्षं सविकल्पकम् । समग्रहीच्च तदिदं पदेनानेन सूत्रकृत् ॥ इत्याचार्य मतानीह दर्शितानि यथाऽऽगमम् । यदेभ्यः सत्यमाभाति सभ्यास्तद्वलम्ब्यताम् ॥ अव्यभिचारिपद कृत्य प्रदर्शनम्
―candi
अव्यभिचारिग्रहणं व्यभिचारिज्ञानव्यवच्छेदार्थम्, यथा ग्रीष्मे तपति ल लाटन्त तपने तन्मरीचिषु चतुरमूषरभुवमभिहत्य समुत्फलितेषु तरङ्गाकार. धारिषु यद् वारिधिज्ञानं तदतस्मिँस्तदिति ग्रहणाद् व्यभिचारि भवति तदनेन पदेन व्यवच्छिद्यते न तत्प्रत्यक्षमिति, तत्र च निर्विकल्पकमपि प्रथमनयनसन्निपातजज्ञानमुदकसविकल्पक ज्ञानजनकमुदकग्राह्येव न यथा तथा तथागताः कथयन्ति मरीचिविषयमविकल्पकं ज्ञानमुदकसविकल्पकजननादप्रमाणमिति निविकल्पावस्थायामविचारयत एव प्रथमोन्मीलतचक्षुषो झगिति सलिलप्रतिभासात् अथ वा वाचकोल्लेखपूर्विका अपि संविदः नैवेन्द्रियार्थजन्यत्वं जहतीप्युपपादितम्, तस्मात्सविकल्पकमविकल्पकं वा यदतस्मिंस्तदिति ज्ञानमुत्पद्यते तद्यभि चारि तह व्यावर्यमिति ।