________________
प्रमाणप्रकरणम्
ननु मरीचिषु जलज्ञानमविद्यमानसलिलावभासित्वादनिन्द्रियार्थसन्निकर्षजमतश्चेन्द्रियार्थसन्नि|त्पन्नपदेन तव्युदाससिद्धः किमव्यभिचारिपदेन नैतदेवम्
तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः ।। न ह्यनुन्मीलिताक्षस्य मरौ सलिलवेदनम् ।। ५ अर्थो ऽपि जनकस्तस्य विद्यते नासतः प्रथा। तदालम्बनचिन्तां तु विधा ऽऽचार्याः प्रचक्रिरे ।। कैश्चिदालम्बनं तस्मिन्नुक्तं सूर्यमरीचयः ।
निगृहितनिजाकाराः सलिलाकारधारिणः ।। तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवदुभयविशेषा न च ९० सन्निहितमरीचिविशेषाः स्मरणपथमवतरन्ति किं तु पूर्वोपलब्धविरुद्धसलिल. वतिनो विशेषास्तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूपमुपदर्शयितुमशक्नुवन्तः तोयरूपेणावभासन्ते ।।
अन्ये त्वालम्बनं प्राहुः पुरोवस्थितधर्मिणः ।
सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ॥ यत्र किल ज्ञाने यद्रूपमुपप्लवते तत्तस्यालम्बनमुच्यते न सन्निहितम् , न चैकान्तासतः खपुष्पादेः ख्यातिरवकल्पते इति देशान्तरादौ विद्यमानमेव स. लिलं सदृशदर्शनप्रबुद्धसंस्कारोपजनितस्मरणोपारूढमिहावलम्बनीभवति ।
अन्यदालम्बनं चान्यत्प्रतिभातीति के चन ।
आलम्बनं दीधितयस्तोयं च प्रतिभासते ॥ ___ कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यते इति न परमाण्वादौ प्रस. क्तिरिति, तदिदं पक्षत्रयमप्युपरिष्टान्निपुणतरं निरूपयिष्यते, तदेवं बाह्येन्द्रियार्थान्वयव्यतिरेकाऽनुविधायिनां विभ्रमाणामिन्द्रियार्थसन्निकर्षोत्पन्नपदेन निरसि. तुमशक्यत्वाद् युक्तमव्यभिचारिपदोपादानम् ।
यत्त मानसा विभ्रमा बाह्येन्द्रियानपेक्षजन्मानः तेषां सत्यमिष्यते एवेन्द्रि. यार्थसन्निकर्षपदेन पर्युदसनमिति न तदर्थमव्यभिचारिपदोपादानम् , तद्यथा
विरहोद्दीपितोदामकामाकुलितदृष्टयः ।
दूरस्थामपि पश्यन्ति कान्तामन्तिकवत्तिनीम् ॥ नन्वेवप्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्य आकारः प्रतिभाति, उच्यते
आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे। स्मृतेस्तु कारणं किं चित्कदा चिद्भवति क चित् ।। क चित्सशविज्ञानं कामशोकादयः क चित् । क चित्वदर्शनाभ्यासः तिमिरं चक्षुषः क चित् ॥