________________
न्यायमञ्जर्याम्
क चिन्निद्रा क चिच्चिन्ता धातूनां विकृतिः क चित् । अलक्ष्यमाणे तद्धेतावदृष्टं स्मृतिकारणम् ।। बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ति कः । अस्तित्वे ऽपि स्मृतौ हेतुमदृष्टं तस्य मन्वते । नूनं नियमसिद्ध्यर्थे जनकस्यावभासनम् । न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता । न च सन्निहितं वस्तु तत्रास्ति वनितादिकम् । तेनेदं स्मृत्युपारूढमवभातीति मन्वते ॥ तत्राद्यन पदेनैताः स्वान्तःकरणसम्भवाः । निरस्ता भ्रान्तयो ऽक्षादिसंसर्गरहितोदयाः ॥ याः पुनः पीतशङ्खादिमरुनीरादिबुद्धयः । अक्षजास्तव्युदासाय सूत्रे पदमिदं कृतम् ॥
व्यवसायपदकृत्यप्रदर्शनम् - दरात स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपमुपलभमानस्य तयारन्यतरत्र वर्तमानान्वक्रकोटरादीन्करचरणान्वा विशेषानपश्यतः समानधर्मप्रबुद्ध. संस्कारतया दोभयवर्तिनोऽपि विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्थागुर्वा पुरुषों वेति संशयज्ञानमुपजायते तदिन्द्रियार्थसन्निकर्पोत्पन्नत्वादिविशेषणयक्तमपि न प्रत्यक्षफलम् अतस्तद्वयवच्छेदाय व्यवसायात्मकग्रहणम् ,
ननु मानसत्वात्संशयज्ञानस्येन्द्रियार्थसन्निकर्पोत्पन्नग्रहणेन निरास: सिद्धयत्येवेति किं पदान्तरेण, तथा च भाष्यकारः स्मृत्यनुमानागमसंशयप्रतिभास्वप्न. ज्ञानोहसुखादिप्रत्यक्षमिच्छादयश्च मनसा लिङ्गानीति वक्ष्यति ।
मैवम्-स्थाएवादिसंशयस्य बाह्येन्द्रियान्वयतिरेकानुविधायित्वात् , क. शिचद्धि मानसः संशयः समस्त्येव यथा दैशिकस्य ज्योतिर्गणकादेरेकदा ऽन्यदा चासम्यगादिश्य तृतीये पदे पुनरादिशतः संशयो भवति किमयमस्मदादेशः संवदेदत विसंवदेदिति स भाष्यकृतश्चेतसि केवलमनःकरण इति स्थितिः, यस्तु विस्फारिताक्षस्य स्थाणुर्वा पुरुषो वेत्यादिः संपद्यते संशयस्तमनिन्द्रियार्थः सन्निकर्षजं को नामाचक्षीत ।
नन्वतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम् एकरूपं च पुरोऽवस्थितमर्थमनेकरूपतया स्पृशति संशयः स्थाणुर्वा पुरुषो वेति सोयमतस्मिंस्तथाभावाद्विपर्यय एवेति पूर्वपदव्युदस्तत्वान्न पदान्तरव्यवच्छेद्यतामईतीति, नैत. देवम् , स्वरूपभेदात्कारणभेदाच्च, एवमेव विरुद्धमाकरमुल्लिखन्विपर्ययो जा. यते स्थाणौ पुरुष इति पुंसि वा स्थाणुरिति, अनियताकारद्वयोल्लेखी तु संशयो