________________
प्रमाणप्रकरणम्
भवति स्थाणुर्वा स्यात्पुरुषो वेति, सो ऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः, कारणभेदस्तु विरुद्धविशेषः स्मरणप्रभवो विपर्ययः, शुक्तिकायां सन्निहितायां रजत. विशेषान्मरीचिषु सलिलगतविशेषाननुस्मरतो विपर्ययो भवति उभयविशेष स्मरणजन्मा तु संशय इति पदान्तरनिरसनीय एवायम् ।
ननुसंशयविपर्यययोरपि निर्विकल्पयोरसम्भवाव्यपदेश्यपदेनैव प्रवरपक्षे(१) प्रतिक्षेपः सिद्धचेत्, पुरोऽवस्थितस्थाएवादिधर्मिदर्शनमात्रमेव निर्विकल्पकमिन्द्रियव्यापारजम, अनन्तरं तूभयान्यतरविशेषणस्मरणजन्मनोरुल्लिखितशब्दयोरेव संशयविपर्यययोरुत्पादः तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात, अतः प. दद्वयमपि तद्वयदासाय न कत्तव्यम्, अत्र तदेव तावद्वक्तव्यम्, प्रवरपक्षः प्र. तिक्षिप्त एव यतः शब्दानुवेधजातमस्ति प्रत्यक्षमुपपादितम् ।
ननु भवतु प्रवरपक्षः प्रतिक्षिप्तः सदृशदर्शननिष्ठिते तु नयनव्यापारे विशेपस्मृतेरूर्ध्वमुपजायमानौ संशयविपर्ययौ नेन्द्रियजाविति प्रथमपदेनैव निरस्तो भवतः तदसत्-स्मतेरुद्धमपीन्द्रियव्यापारानुवृत्तेरित्युक्तत्वात्, एतच्चान्वय. व्यतिरेकाभ्यामवगम्यते निमीलितचक्षुषस्तदनुत्पादात्, न च तदानीमन्तः सं. कल्परूपेणापि शब्दोल्लेखः उत्पन्ने तु संशये विपर्यये च वाचकस्मरणं भविध्यतीति सम्यगज्ञानवत्संशयविपर्ययावपि शब्दोल्लेखशून्यौ संवेद्यते, विशेष. स्मृतिस्तु विशेषविषयत्वात्तानेवाक्षिपतु शब्दस्य किं वर्तते वाचकशब्दस्मृतिस्तु शब्दमुपस्थापयति, सा च न तावदुपपन्नति ।
सम्यक्प्रत्ययवत्तस्माद्वाचकोल्लेखवर्जितौ ।
अक्षव्यापारजन्मानौ स्तः संशयविपर्ययो॥ ईशयोः कथमनयोराधपदव्युदसनीयता, तस्मात् तदपाकृतये युक्तं पदवयस्याप्युपादानम् , एवं लक्षणपदानि व्याख्यातानि ।
लक्ष्यपदं तु प्रत्यक्षमिति ज्ञानविशेषे रूढ्यैव प्रवर्तते, योगस्य व्यभिचारात् प्रतिगतमक्षं प्रत्यक्षमित्यक्षरार्थः स चायं सुखादावपि सम्भवतीति रू. ढिरेव साधीयसी, अथ वा ज्ञानपदस्य सूत्रे निर्देशाद्योगपक्षो ऽप्यस्तु न चासो दृश्यमानो निहोतुं युक्तः, योगरूढिस्तु नाम न सम्मतैव विदुषाम् , यत्रापि हि द्वयं दृश्यते तत्रापि शब्दप्रवृतौ प्रयोजकमेव भवति, कथं पुनरक्षं प्रतिगत ज्ञा. नमिष्यते न संयोगित्वेन अञ्जनादेः प्रत्यक्षप्रसङ्गात् , न समवायित्वेन अक्षपतिनां रूपादीनां तथात्वप्रसङ्गात् , न जनकत्वेन अक्षारम्भकाणां परमाणूनामपि तथाभावप्रसक्तः, तस्माजन्यत्वेनैव ज्ञानमक्ष प्रतिगतमिति व्याख्येयम् ,
(१) प्रवरपक्षे-पूर्वोक्त ' प्रवरास्त्वा
इस्युक्तपक्षे इत्यर्थः ।