________________
न्यायमञ्जर्याम् अव्यययीभावव्याख्यानं तु न युक्तं प्रत्यक्षः पुरुषः प्रत्यक्षा स्त्रीत्यादिव्यवहारदर्शनादित्यलं प्रसङ्गेन।
तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम् । यतो भवति विज्ञानं तत्प्रत्यक्षमिति स्थितम् ।। इति विगतकलङ्कमस्य धीमानकुरुत लक्षणमेतदक्षपादः । न तु पररचितानि लक्षणानि क्षणमपि सूक्ष्मदृशां विशन्ति चेतः ।।
बौद्धाभिमतप्रत्यक्षलक्षणम् - यत्तावस्कल्पनाऽऽपोढमभ्रान्तमिति लक्षणम् ।
प्रत्यक्षस्य जगौ भिक्षुस्तदत्यन्तमसाम्प्रतम्(१) ॥ .. शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना।
अस्याश्च केन दोषेण प्रामाण्यं न विषयते । नन्वमिलापसंसर्गयोग्यप्रतिभासत्वादपि हि कमन्यं दोषं मृगयते भवान् असदर्थविषयत्यागे तत्त्वमुक्तं भवति शब्दार्थस्य वास्तवस्याभावात्, स्वलक्षणस्य सजातीयेतरव्यावृत्तात्मनः संम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तु. मशक्यत्वात् , तद्व्यतिरिक्तस्य वस्तुनो ऽनुपलम्भात्, न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पनाबुद्धिः तमन्तरेणापि भावात् , तस्मिन्सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विना अनुत्पादात् , यदि चेन्द्रियार्थसन्निकर्षस्तजनको भवेत् प्रथममेव तथाविधां धियं जनयेन च जनयति, तदयं शब्दस्मृते. रूवमपि न जनक इति मन्यामहे । तदुक्तम्--
यः प्रागजनको बुद्धरुपयोगाविशेषतः ।
स पश्चादपि तेन स्यादर्थापाये ऽपि नेत्रधीः ॥ इति । अपि च सत्यपीन्द्रियार्थसंसर्गे स्मृत्यपेक्षया सो ऽर्थस्तयैव व्यवहितः स्यात, ... अर्थोपयोगे ऽपि पुनः स्मार्त शब्दानुयोजनम् । __अक्षधीयद्यपेक्षेत सो ऽर्थों व्यवहितो भवेत् ।। इति ।
सङ्कतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं बुद्धिमुपजनयतीति चेद् न व्यक्ति. रिक्ताव्यतिरिक्तापकारादिविकल्पैः सहकारिण निरस्तत्वात् , किं च दण्डीत्या दिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव जायते किं तु बहुप्रक्रियापेक्षम् , यदाह
विशेषणं विशेष्यं च संबन्धं लौकिकी स्थितिम् ।
गृहीत्वा सकलं चैतत्तथा प्रत्येति नान्यथेति ।। पाणवा० २१४५ (१) तदुकं न्यायविन्दोः प्रथमपरिच्छेदे धर्मकीर्तिना तत्र कल्पनापोठमभ्रान्तं प्रत्यक्षम्' इति ।
पाच