________________
प्रमाणप्रकरणम्
न चेयती प्रक्रियां प्रथमनयनोपनिपातजातमविकल्पकं ज्ञानमुद्दोढुं क्षममित्याह ।
सङ्केतस्मरणोपायं दृष्टसङ्कल्पनात्मकम् ।
पूर्वापरपरामर्शशून्यन्तच्चाक्षुषं कथम् ।। इति । प्रमाण वा० २११४ तत्रैतत्स्यात् , द्विविधा विकल्पाः छात्रमनारथविरचिताः इदन्ताग्राहिणश्च नीलमित्यादयः तत्र पूर्वे मा भूवन्प्रमाणं कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्ये ऽभिनिवेशः, इदन्ताग्राहिणां त्वर्थाविनाभूतत्वात्कथं न प्रामाण्यमिति, उच्यते. सर्वएवामी विकल्पाः परमार्थतो ऽर्थ न स्पृशन्त्येव स हि निर्विकल्पकेनैवासर्वा त्मना परिच्छिन्नः तदुक्तम्-प्रमाणवार्तिके ११९२)
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
को ऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ इति । यत्तु केषां चिद्विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादि रूपं तदर्थाविनाभावि. निर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गजनितं न तु तेषामर्थस्पर्शः कश्चिदस्ति अर्थात्मनो निर्विकल्पेनैव मुद्रितत्वात् ।
तस्मादतात्त्विकाकारसमुल्लेखपुरस्सराः।
न यथावस्तु जायन्ते कदा चिदपि कल्पनाः ॥ पञ्च चैताः कल्पना भवन्ति जातिकल्पना गुणकल्पना क्रियाकल्पना नामकल्पना द्रव्यकल्पना चेति, ताश्च क चिदभेदे ऽपि भेदकल्पनात् क चिच्च भेदे ऽप्यभेदकल्पनात्कल्पना उच्यन्ते । ।
जातिजातिमताभेदो न कश्चित्परमार्थतः ।
भेदारोपणरूपा च जायते जातिकल्पना । इदमस्य गोर्गोत्वमिति न हि कश्चिद्भद पश्यति तेनाभेदे भेदकल्पनैव ।
एतया सदृशन्यायान्मन्तव्या गुणकल्पना ।
तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतोः ।। तथा चाहुः-एष गुणी रूपादिभ्यो ऽर्थान्तरत्वेन नात्मानं दर्शयति तेभ्यश्व व्यतिरेकं वान्छसीति चित्रम् ।
भेदारोपणरूपैव गुणवत्कर्मकल्पना।
तत्स्वरूपातिरिक्ता हि न क्रिया नाम का चन॥ गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात् ।
विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना ।
चैत्रो ऽयमित्यभेदेन निश्चयो नामनामिनोः ॥ - चैत्र इत्ययं शब्दः अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् ।