________________
न्यायमञ्जर्याम्
एवं दण्ड्ययमित्यादिर्मन्तव्या द्रव्यकल्पना । सामानाधिकरण्येन भेदिनाग्रहणात्तयोः ॥
ननु यद्यभेदे भेदं भेदे चाभेदमारोपयन्त्यः कल्पनाः प्रवर्त्तन्ते तत्कथमासु बाधकः प्रत्ययो न जायते शुक्तिकारजतबुद्धिवद्, उच्यते, यत्र वस्तु वस्त्वन्तरात्मना Sवभासते तत्र बाघको भवति मरीचिष्विव जलबुद्धौ इह तु न जात्यादि वस्त्वन्तरमस्ति यता वस्त्वन्तरात्मना ऽस्य ग्रहो भवेत्, व्यक्तिविषया एवैते सामानाधिकर वैयधिकरण्य विकल्पाः तस्माद्वस्त्वन्तरानवभासिष्वेषु न बाधकः प्रत्वयेो जायते, तस्मान्न विपर्ययात्मानो विकल्पाः, न चैते प्रमाणम्, एतदुल्लि ख्यमानम्य जात्यादेरपारमार्थिकत्वात् अत एव प्रमाणविपर्ययाभ्यामयमन्य एव विकल्प इत्याचक्षते इत्यलं विस्तरेण ।
८८
एवमेताः प्रवर्त्तन्ते वासनामात्रनिर्मिताः । कल्पितालोकभेदादिप्रपञ्चाः पञ्च कल्पनाः ॥ एवं च पश्यता तासां प्रामाण्यामोदमन्दताम् । भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम् ॥
बौद्धाभिमतस्य प्रत्यक्षलक्षणस्य खण्डनम्
अत्र प्रतिविधीयते, तदिदं संकीर्णप्रायमतिबहु विलपता भवता न नियतं किमपि विकल्पनानामप्रामाण्यकरणमिति स्पष्टमावेदितं तदुच्यताम्, किं शब्दार्थावभासित्वगर्भीकृत मसदर्थवाचित्वं तदप्रामाण्य कारणमभिमतमुत संकेतस्मृत्य - पेक्षेापनतमनिन्द्रियार्थसन्निकर्षजत्वमुत विशेषणग्रहणाद्यपेक्षावाप्तं बहुप्रयाससाध्यत्वमुत पूर्वापरपरामर्शशून्य चाक्षुषवैलक्षण्यवाचे युक्तिसमर्पितं विचारकत्वम् उत निर्विकल्पक परिच्छिन्नवस्तुग्राहितानिबन्धनमधिगताधिगन्तृत्वम् उत भेदाभेदसमारोपभणितमतस्मिंस्तदिति प्राहित्वम् उत वृत्तिविकल्पादिबाधित सामान्यग्रहणसूचितं बाध्यत्वमेवेति, तत्र तावन्न शब्दसंसर्गये। ग्यार्थमहणद्वार कमसदर्थप्राहित्वमेषामप्रामाण्यकारणमभिधातुं युक्तम्, शब्दार्थस्य वास्तवस्य समर्थयिष्यमाणत्वात् कः पुनरसाविति चेद्य एव निर्विकल्प के प्रतिभासते किं निविकल्प के सामान्यादिकमवभासते वाढमभासते इति वक्ष्यामः, अत एव बाध्यत्वमपि न प्रामाण्यापहारकारणमेषां वक्तव्यम्, वृत्तिविकल्पादेर्बाधस्य परिहरिष्यमाणत्वात्, बाधकान्तरस्य च नेदमिति प्रत्ययस्य शुक्तिकारजतज्ञानादिवद्भवतैवानभ्युपगमात्, नाऽप्यनिन्द्रियार्थसन्निकर्षजन्यत्वं संकेत ग्रहणकालानुभूतशब्दस्मरणापेक्षणादस्य वक्तव्यम्, सहकार्यपेक्षायामपि तद्व्यापारविरतेः ।