SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रमाणमकरणम् यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् । कालान्तरेण तां बुद्धिं विदधत्केन वार्यते ॥ व्यतिरिक्ताव्यतिरिक्तोपकारकरणादिविकल्पास्तु क्षणभङ्गभङ्गे निराकरि ध्यन्ते, रूपग्रहणे च चक्षुषः प्रदीपादेरपेक्षायां दुष्परिहारास्ते विकल्पाः, न वै किं चिदेकं जनकमिति भवन्तो ऽपि पठन्ति भवत्पते ऽपि तुल्यास्ते यद्युभया- ५ दोन तेनैकश्चोद्यो भवति, तस्मादुपयोगाविशेषादिन्द्रियालोकमनस्कारविषयवाचकस्मरणमपि सामप्रयन्तर्गतमेतत्प्रत्ययजन्मनि व्याप्रियते इति न वाचकस्मरणजनितत्वेन स्मार्त्तत्वादप्रमाणं विकल्पों रूपस्मृत्याख्य समनन्तरप्रत्ययनिर्मितस्य निर्विकल्पस्य रसज्ञानस्यापि तथात्वप्रसङ्गात् । यचेदमुच्यते सो ऽर्थो व्यवहितो भवेदिति तन्न विद्मः कीदृशं व्यवधान - १० मर्थस्येति, न हि दीपेन वा मनसा वा विज्ञानहेतुना कदा चिदर्थों व्यवधीयते, मनोवच्च वाचकस्मृतिरप्यसामप्रचन्तर्गता सती तत्प्रतीतौ व्याप्रियते इति कथमर्थं व्यवदधीत, स्मृतिविषयीकृतः शब्दस्तमर्थं व्यवधत्ते इति चेन्न - शब्दस्य 'तत्प्रकाशकत्वेन ज्ञानवद् दीपवद्वा व्यवधायकत्वाभावात् न चेन्द्रियव्यापारतिरोधानं व्यवधानं तस्याधुनाऽप्यनुवर्त्तमानत्वात् । १५ यथा तद्भावभावित्वादाद्यविज्ञानमक्षजम् । तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम् ॥ न हि वाचकस्मरणानन्तरमक्षिणी निमील्य विकल्पयति पटो ऽयमिति । अथ यावद्वाचकविज्ञानं हृदयपथमवतरति तावत्सो ऽर्थः क्षणिकत्वादतिकान्त इति व्यवहित उच्यते तदपि दुराशामात्रम्, क्षणभङ्गस्योपरिष्टान्निराकरि- २० ध्यमाणत्वात् । अपि च प्रदर्शितप्राप्त्यादिव्यवहार वत्सन्तानद्वारकमिहापि तद्ग्रहणं भविध्यतीति सर्वथा न व्यवधानम्, तदेवं समयस्मरणसापेक्षत्वेपि नेन्द्रियार्थसन्नि कर्षोत्पन्नतामतिवर्त्तते सविकल्पकं विज्ञानमिति कथमप्रत्यक्षम्, यत्पुनर्विशेष. रणविशेष्य ग्रहणादिसामग्र्यपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकरणमभि- २५ धीयते तदतीव सुभाषितम्, न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति, उक्तं च न हि गिरिशृङ्गमारुह्य यद्गृह्यते तदप्रत्यक्षमिति, रसादिज्ञानापेक्षया च रूपज्ञानस्य दीपाद्यालोकाहरण प्रयाससाध्यत्वादप्रामाण्यं स्यात् । यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्पज्ञानानां विचारकत्वादप्रमाण्यमुच्यते तदपि न सम्यक्, सर्वत्र ज्ञानस्य विचारकत्वानुपपत्तेः, ३० विचारको हि माता स हि पश्यति स्मरत्यनुसन्धत्ते विचारयतीच्छति द्वेष्टि यतते गृह्णाति जहाति सुखमनुभवतीति वक्ष्यामः, अर्थ च स्पृशतो विज्ञानस्य विचारयतो ऽपि कथमप्रामाण्यं स्यात् । १२ न्या० पूर्वा ८९
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy