________________
न्यायमअर्याम्
अथास्य निर्विकल्पकेनैव सर्वात्मना स्पृष्टत्वात्पिष्टपेषणमयुक्तम् इति सवि. कल्पमपि अधिगतार्थवाहित्वादप्रमाणमिति मन्यसे तदपि न साधु पूर्वमेव परि. हृतत्वात् ,न घनधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम् , गृहोतग्रहणे ऽपि प्रमा. णस्य प्रमाणस्वानतिवृत्तेः। ____ यत्स्वभ्यधायि मिन्नेष्वभेदमभिन्नेषु च भेदं कल्पयन्त्यः कल्पना अतस्मिं. स्तद्ग्रहे प्रामाण्यमवजहतीति तद्युक्तं अतस्मिंस्तद्ग्रहो भवत्यप्रमाणत्वकारणं तस्विह नास्ति तस्य हि बाधकप्रत्ययोपसन्निपातानिश्चयः, न च भवदुपव. णितासु पञ्चस्वपि जास्यादिकल्पनासु बाधकं किं चिदस्तीति नातस्मिंस्तग्रा. हिण्यः कल्पना भवन्ति ।
जातिर्जातिमतो भिन्ना गुणी गुणगणात्पृथक् ।
तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका ॥ एतच्चोपरिष्टानिर्णेष्यते, द्रव्यानाम्नोस्तु भिन्नयो देनैव प्रतीति भेदकल्पना, न हि देवदत्तशब्दो ऽयमित्येवं तद्वाच्यावगतिरेषा न शब्दो ऽस्यामारूढो ऽव. भासते न शब्दविवर्त्तरूपेणार्थः परिस्फुरति किं तर्हि
शब्दस्मृत्याख्यसामग्र्यसामार्थ्यातिशयाद्भवः ।
प्रत्ययातिशयः सेो ऽयमित्येवं प्राक् प्रसाधितम् ।। दण्ड्यमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता न हि दण्डा ऽयमिति देवदत्ते प्रतीतिः अपि तु दण्डीति, तत्र च प्रकृतिप्रत्ययो पृथगेवोपलभ्येते दण्डो ऽस्यास्तीति दण्डी तदिह यथैव वस्तु तथैव तदवसाय इति नाभे. दारोपः, कमणि तद् द्वयमपि नास्ति नाभिन्ने भेदकल्पनम् , न च मिन्ने ऽप्यभेदकल्पना।
क्रियाहि तत्त्वतो भिन्ना भेदेनैव च गृह्यते । चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ।। तेन क्रियागुणद्रव्यनामजात्युपरब्जितम्। विषयं दर्शयन्नेति विकल्पो नाप्रमाणताम् ।। विपर्ययात्समुत्तीर्ण इति साधु सहामहे । प्रमाणात्तु बहिर्भूतं विकल्पं न क्षमामहे ।। कचिदांधकयोगेन यदि तस्याप्रमाणता । निविकल्पे ऽपि तुल्या ऽसौ द्विचन्द्राद्यवभासिनि ।। मनोराज्यविकल्पानां काममस्त्वप्रमाणता ।
यथावस्तु प्रवृत्तानां न त्वसावक्षजन्मनाम् ।। न च निर्विकल्पकपृष्ठभावित्वकृतमेषामेतद्रूपम् , विषयसंस्पर्शमन्तरेण स्वतः स्वच्छरूपाणां ज्ञानानामेवमाकारत्वानुपपत्तः, किं निर्विकल्पकपृष्ठभाविता क