________________
प्रमाणपकरम्
रिष्यति तदनन्तरभाविना हि स्मृतिरपि क चिद् दृश्यते एव, न च सा तच्छायावतीति दुराशामात्रमेतत् । ___ ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतम् , एकस्यार्थस्वभावस्येति वर्णितम् , प्रतिविहितमेतद् गृहीतग्रहणे ऽपि प्रामाण्यानपायात , किं च किं निवि. कल्पकेन गृह्यते इत्येतदेव न जानीमः ।
भवन्तो निर्विकल्पस्य विषयं सम्प्रचक्षते । सजातीयविजातीयपरावृत्तं स्वलक्षणम् ॥ महासामान्यमन्ये तु सत्तां तद्विषयं विदुः । वापमपरे तत्त्वं प्रमेयं तस्य मन्वते । के चिद् गुणक्रियाद्रव्यजातिभेदादिरूषितम् । शबलं वस्तु मन्यन्ते निर्विकल्पकगोचरम् ॥ प्रत्यक्षविषये ऽप्येताश्चित्रं विप्रतिपत्तयः । परोक्षार्थं हि विमतिः प्रत्यक्षेणोपशाम्यति ।। प्रत्यक्षे हि समुत्पन्ना विमति: केन शाम्यति । इदं भाति न भातीति संविद्विप्रतिपत्तिषु ।।
परप्रत्यायने पुंसां शरणं शपथोक्तयः । न तु शपथशरणा एव निरुद्यममात्महे मार्गान्तरेणापि तत्प्रमेयं नि. श्चिनुमः।
निर्विकल्पानुसारेण सविकल्पकसम्भवात् ।
ग्राह्यं तदानुगुण्येन निर्विकल्पस्य मन्महे ।। तत्र न तावत्सकलसजातीयव्यावृत्तं स्वलक्षणं प्रत्यक्षस्य विषयः ।
गृहीते निर्विकल्पेन व्यावृत्ते हि स्वलक्षणे ।
अकस्मादेव सामान्यविकल्पोल्लसनं कथम् ॥ निर्विकल्पानुसारेण हि विकल्पाः प्रादुर्भवितुमर्हन्ति, अपि च
विजातीयपरावृत्तिविषया यदि कल्पना। व्यावृत्तिरूपं सामान्यं गृहीतं हन्त दर्शनैः ।। व्यावृत्तान्ननु नैवान्या व्यावृत्तिः परमार्थतः । व्यावृत्तग्रहणेनैवं सुतरां तद्ग्रहो भवेत् ॥ सामान्यग्रहणे ऽप्येवं तद्यापारविकल्पनात् ।
स्वलक्षणपरिच्छेदनिष्ठं तन्नावतिष्ठते ॥ नापि सत्ताद्वैतवादिसम्मतसत्ताख्यो निर्विकल्पस्य विषयो युक्तः ।
सत्ताग्रहणपक्षे ऽपि विशेषावगतिः कुतः। सा भाति भेदस्पृष्ठा चेत्सिद्धमद्वैतदर्शनम् ।।