________________
न्यायममर्याम् न च भेदं विना सत्ता ग्रहीतुमपि शक्यते । नाविद्यामात्रमेवेदमिति च स्थापयिष्यते ।। वाक्तत्वप्रतिभासो ऽपि प्रतिक्षिप्तो ऽनया दिशा। कथं च चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते ॥ अगृहीते तु संबन्धे गृहीते वापि विस्मृते । अप्रबुद्धे ऽपि संस्कारे वाचकावगतिः कुतः ।। चित्रतापि पृथग्भूतैर्धस्तत्समवायिभिः । जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा ।। तदात्मता तु नैकस्य नित्यं तत्त्वानुपग्रहात् । अंशनिष्कर्षपक्षे तु धर्मभेदो बलाद्भवेत्।। यस्य यत्र यदोद्भूतिजिघृक्षा चेति कथ्यते । तदात्मकत्वं धर्माणामुच्यते चेत्यसंगतम् ॥ देशभेदस्तु धर्माणामस्माभिरपि नेष्यते । धर्मी हि तेषामाधारो न पुनः स तदात्मकः ॥ तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः। स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ।। किमात्मको ऽसाविति चेद्यद्यदा प्रतिभासते । वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः ।। क चिज्जातिः कचिद्रव्यं कचित्कर्म क्वचिद्गुणः । यदेव सविकल्पेन तदेवानेन गृह्यते ॥ इद शब्दानुसन्धानमात्रमभ्यधिकं परम् । विषये न तु भेदो ऽस्ति सविकल्पाविकल्पयोः । अतः शब्दानुसन्धानबन्ध्यं तदनुबन्धि वा । जात्यादिविषयग्राहि सर्व प्रत्यक्षमिष्यते ।। तस्माधत्कल्पनापोढपदं प्रत्यक्षलक्षणे।।
भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यते ।। अभ्रान्तपदस्यापि व्यावर्त्य न किं चन तन्मतेन पश्यामः । ननु तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमं द्विचन्द्रालातचक्रचलपादपादिदर्शनमपोह्यमस्य परैरुक्तम् , सत्यमुक्तम् अयुक्तं तु कल्पनापोढपदेनैव तव्यदाससिद्धेः तत्रापि निविकल्पकं ज्ञानमेकं चन्द्रादिविषयमेव विकल्पास्तु विपरीताकारग्राहिणो भवन्ति यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी विकल्प इति,
ननु तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशिनं प्रहीतुमिः