________________
प्रमाण प्रकरणम्
ति निर्विकल्पकमपि द्विचन्द्रज्ञानम्, यद्येवं तरङ्गादिसादृश्यरूषितमूषरे म रीचिचक्रं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकमाहि विज्ञानं किमिति नेष्यते, अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो न स्यात्, अपि च न बाधकोपनिपातमन्तरेण भ्रान्तता ऽवकल्पते ज्ञानानां न च क्षणिकवादिमते बाध्यबाधकभावो बुद्धीनामुपपद्यते इत्यलं विमर्देन । इति सुनिपुणबुद्धिर्लक्षणं वक्तुकामः पदयुगलमपीदं निर्ममे नानवद्यम् । भवतु मतिमहिम्नश्चेष्टितं दृष्टमेतजगदभिभवधीरं धीमतो धर्मकीत्तैः ॥ श्रोत्रादिवृत्तिरपरैरविकल्पिकेति प्रत्यक्षलक्षणमवरिण तदप्यपास्तम् । साम्यान्न यस्य न च सिद्ध्यति बुद्धिवृत्त्या दृष्टृत्वमात्मन इति प्रतिपादितं प्राक् ॥
मीमांसकाभिमतस्य प्रत्यक्षलक्षणस्य खण्डनम् -
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादित्येतत्सूत्रं जैमिनीयैः साक्षात्प्रत्यक्षलक्षणपरत्वेन न व्याख्यातम्, चो. दनालक्षणो ऽथ धर्म इति प्रकृतप्रतिज्ञासङ्गत्यभावादपि तु धर्मं प्रति प्रत्यक्षमनिमित्तमेवंलक्षणकत्वादित्यनुवादत्वं लक्षणस्यापि सम्भवेदिति तदेतल्लक्षणवर्णने सूत्रयोजनमसमीचीनम्, अतिव्याप्तिदोषानतिवृत्तेः, तथा हीन्द्रियाणां सत्सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धि: प्रत्यक्ष मितिसूत्रार्थः, तथा चातिव्याप्तिः संशयविपर्ययबुद्ध्योरपि इन्द्रियसंप्रयोग जत्वेन प्रत्यक्षत्वप्रसङ्गात्,
अथ सत्सम्प्रयाग इति सतां सम्प्रयोग इति व्याख्यायते तथा ऽपि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति सम्प्रयोगे इति सत्सप्तमीपक्ष एव न त्यज्यते संशय विपर्यच्छेदी च सम्प्रयोग इत्युपसर्गो वर्ण्यते यथोक्तम्
सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । दुष्टत्वाच्छुक्तिकायोगो वार्यतामक्षजेक्षणात् । इति ॥
श्लो. ना. प्रत्य
तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतो ऽवग तिर्वक्तव्या, कार्य च ज्ञानं न च तदविशेषितमेव प्रयोगस्य सम्यक्तामवगमयति, न च तद्विशेषणपरमिह पद्मप्यक्षरमपि मात्रामात्रमपि वा सूत्रे पश्यामः सतां प्रयोग इति च परं निरालम्बनविज्ञाननिवृत्तये वर्णितम्, सतीति तु सप्तम्यैव ग. तार्थस्वादनर्थम लोकत एव कार्यविशेषावगमात्प्रयोगसम्यक्त्वमवगमिष्याम
7