SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जयाँम् इति चेलोकत एव प्रत्यक्षस्य सिद्धत्वात् कि तल्लक्षणे सूत्रसामर्थ्ययोजनाक्लेशेन, यदप्यत्रभवान्वृत्तिकारः प्राह यद्यभिचारि न तत्प्रत्यक्षम् यत्प्रत्यक्षं यद्विषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमित्येवं तत्सतोयंत्ययेन लक्षणमनपवादमवकल्पते इति तदपि वृथाटाध्यामात्रम् , संशयज्ञानेन व्यभिचारानति. वृत्तः, तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म स. त्प्रत्यक्षं तदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमस्त्येव । ननूभयविषयं ज्ञानं न चोभाम्यां सम्प्रयुक्तमिन्द्रियम् , मैवम्-न हि, धवखदिरवत् द्वावपि संशयसंविदि प्रतिभासेते किं तु स्थाणुर्वा पुरुषो वेत्य. निर्धारितैकतरपदार्थतत्त्वावमर्शी संशयो जायते, नूनं च तयोरन्यतरेणेन्द्रियं सम्प्रयुक्तमेवेति उभयावमर्शित्वाच्च संशयस्य येन सम्प्रयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिः परिहृता भवति। अथ युः किमनेन परिक्लेशेन न लक्षणवर्णनमस्माकमभिमतम् अनुवा. दपक्षनिक्षिप्तत्वात् ,अपि तु लोकप्रसिद्धप्रत्यक्षानुवादेन धर्म प्रति अनिमित्तत्वमेव विधीयते न धर्म प्रति प्रमाणं प्रत्यक्षं विद्यमानोपलम्भनत्वाद्विद्यमानार्थप्रा. हित्वादित्यर्थः धर्मश्च न वर्तमानस्त्रिकालानवच्छिन्नस्य तस्य यजेत दद्याज्जुहयाद् इत्यादिशब्देभ्यः प्रतोतेः, तहि सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति किमर्थो ग्रन्थ इति चेन्न, विद्यमानीपलम्भनत्वमसिद्धमिति परो ब्रयात्स वक्तव्यः विद्यमानोपलम्भनं प्रत्यक्षं सत्सम्प्रयोगजस्वादिति, प्रत्यक्षग्रहणमपि हेतुनिर्देशार्थमेव, सत्सम्प्रयोगस्यासिद्धता ब्रुवन्ननेन प्रत्याख्यायते, स. सम्प्रयोगजं प्रत्यक्ष प्रत्यक्षत्वादिति, तदुक्तम् , प्रत्यक्षत्वमतो हेतुः शेषहेतुप्र. सिद्धये इति, स्वातन्त्र्येणापि प्रत्यक्षत्वं धर्मग्राहकत्वनिषेधाय वक्तव्यम् , न धर्मग्राहि प्रत्यक्षं प्रत्यक्षत्वादस्मदादिप्रत्यक्षवदित्येवमन्यत्रैव सूत्रतात्पर्यान्नातिव्याप्त्यादिदोषावसर इहेति, तदेतदपि न प्रामाणिकमनोनुकूलम् , कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्त्वं प्रतिपाद्यते किमस्मदादिप्रत्यक्षस्य योगिप्रत्यक्षस्य वा, तत्रास्मदादिप्रत्यक्षस्य तथात्वे सर्वेषानविवाद एवेति किं तत्रेयता अमेण, योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात्कस्य धर्म प्रत्यनिमित्तत्वप्रतिपादनम् । एवं च धमिणोऽभावादाश्रयासिद्धतां स्पृशेत् । विद्यमानोपलम्भत्वप्रत्यक्षत्वादिसाधनम् ।। परप्रसिद्ध्या तत्सिद्धिरिति चेत्केयं प्रसिद्धिर्नाम, प्रमाणमूला तद्विपरीता पा, आद्य पक्षे प्रमाणस्यापक्षपातित्वात्परस्येव तवापि तत्सिद्धिर्भवतु, अप्रमाणमूलत्वे तु न कस्य चिदप्यसौ प्रसिद्धिः। __ योगिज्ञानं परेषां यत्सिद्धं तदनुभाषणे । प्रतिज्ञापदयोरेव व्याघातस्ते प्रसज्यते ।।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy