________________
प्रमाणपकरणम्
९५ परैर्हि धर्मग्राहि योगिज्ञानमभ्युपगतम् अतस्तदनुभाषणे धर्मग्राहकं न ध. मग्राहकमिति उक्तं स्यात् ।
परसंसिद्धमूलं च नानुमान प्रकल्पते । उक्तं भवद्भिरेवेदं निरालम्बनदूषणम् ।। साध्यसिद्धिर्यथा नास्ति परसिद्धन हेतुना। ५
तथैव धर्मिसिद्धत्वं परसिद्ध्या न युज्यते ।। सत्रैतत्स्यात् प्रसङ्गसाधनमिदं प्रसङ्गश्च नाम परप्रसिद्धेन परस्यानिष्टापा. इनमुच्यते, परस्य च विद्यमानोपलम्भनं सत्सम्प्रयोगजन्यं च प्रत्यक्षं प्रसिद्धम् , अतस्तेनैव धर्मेण हेतुना धर्मानिमित्तत्त्वं तस्योपपद्यते इति को दोष: नैतदेवम्
प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः । ६०
तद्धि कुड्यं विना तत्र चित्रकर्मव लक्ष्यते ॥ न हि नभः कुसुमस्य सौरभासौरभविचारो युक्तः, अथापि किं न एतेन भवत्विदं प्रसङ्गसाधनम् ।
तदत्रापि न तु व्याप्तिप्रतीतिरिह मादृशाम् ।
न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः ।। ६ मत्प्रत्यक्षमक्षमं धर्मग्रहणे इति भवान्न जानीते त्वत्प्रत्यक्षमपि न धर्मग्राहोति नाहं जाने अन्यस्य प्रत्यक्षमीदृशमेवेत्युभावप्यावां न जानीवहे ।
त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वक्षि किं वृथा ।। प्रामाणिकस्थिति तस्मादित्थं श्रोत्रिय बुध्यसे।
परोक्ते ऽतीन्द्रिये ह्यर्थे मा वादीर्दूषणं पुनः ।। प्रमाणसिद्धे हतशक्तिदूषणं प्रमाणशून्ये ऽपि वृथा तदुक्तयः। निरस्य चोद्यव्यसनं तु मृग्यतामतीन्द्रिये वस्तुनि साधनं पुनः ।।
सचेत्पर्यनुयुक्तः सन्वक्तुं शक्नोति साधनम् । ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत् ॥
योगजप्रत्यक्षसाधनम्आह शिक्षिताः स्मः प्रामाणिकवृत्तं न दूषणं ब्रूमो भवन्तमेवाऽनुयुबज्महे तदेतहि कथ्यतां धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ किं प्रमाणमिति, इदमुच्यते दर्शनातिशय एव प्रमाणम् , तथा ह्यस्मदादिरपेक्षितालोको ऽवलोकयतिनिकटस्थितमर्थवृन्दम् , उन्दुरुवैरिणस्तु (१)सान्द्रतमतमःपङ्कपटलविलिप्तदेशपतितमपि संपश्यन्ति, संपातिनामा च गृध्रराजो योजनशतव्यवहितामपि
(१) डन्दुरुमूर्षकस्तद्वैरी विदालः ।
योग