________________
न्यायमञ्जर्याम् दशरथनन्दनसुन्दरीं ददर्शति श्रूयते रामायणे, सा ऽयं दर्शनातिशयः शुक्लादिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि निरतिशयमतिशयम् अतश्च यत्रास्य परः प्रकर्षः ते योगिनो गीयन्ते, दर्शनस्य च परो ऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूतभविष्यदादिविषयत्वम् ,
ननु स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना धर्मस्तु चक्षुषो न वि. षय एव, यदुक्तम्
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलधनात् ।
दूरसूक्ष्मदिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता(१)। अपि च
ये ऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् ।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनादिति ॥ एतदयुक्तम् , यतो यद्यपि नास्मदादिनयनविषयो धर्मः तथापि योगीन्द्रियगम्यो भविष्यति, तथाहि योजनशतव्यवहितमन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति सम्पातिवृषदंश(२)दृशोस्तु विषयो भवत्येव, नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृहीयात् , यथोक्तम्
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
ननं स चक्षुषा सर्वान् रसादीन्प्रतिपद्यते(३) ॥ इति । नैतदेवम् , रसादिग्राहीण्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवे. . तिन रसादिषु चक्षुर्व्यापारः परिकल्प्यते, धर्मे ऽपि न तर्हि कल्पनीय इति चेद् न तस्य रसादिवत्तदविषयता शब्दस्याभावात् ____ अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान्भवान् , अविषयत्वं तद्भावे ऽपि तदनवगमादवगम्यते यथा नयनसद्भावे ऽपि शब्दाश्रवणात्तदविषः यता शब्दस्यावसीयते, न चैवं योगिचक्षुषि सत्यपि धर्मस्याग्रहणमवगन्तुं शक्नोति भवानुभयस्यापि भवतः परोक्षत्वादिति विषयस्स तस्य नेति नैव वक्तुं युक्तमिति ।
ननु कर्त्तव्यतारूपः त्रिकालस्पर्शवर्जितः । चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥ सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः ।
न त्वेष दुर्गमः पन्था योगिनां सर्वदर्शिनाम् ॥ (१) श्लोकवार्तिके सू०२श्लोक११३। (२) श्लोकवार्तिक सू० २श्लोक१११। (३)वृषदंश विडाला।