________________
प्रमाणप्रकरणम्
यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्तशब्दैकशरणावगमो धर्मः कथं ततो ऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यते तदपि प्रक्रियामात्रम्, किमिव हि त्रिकालस्पर्शास्पर्शाभ्यां कृत्यम् , यथा वयं गमनादिक्रियाणां देशान्तर. प्राप्त्यादिप्रयोजनतां जानीमस्तथा ऽग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति योगिन इति किमत्र साहसम, यदि हि बाह्येन्द्रियेष्वमर्षों न तेष्वतिशयो विषह्यते तदलमनुबन्धेन ।
मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्म कान्तादाविव कामिनाम् ॥ मनो हि सर्वविषयं न तस्याविषयः कश्चिदस्ति, अभ्यासवशाच्चातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते, यथा ऽऽहु:
कामशाकामयोन्मादचौरस्वप्नायुपद्रताः।
अभूतानपि पश्यन्ति पुरतो ऽवस्थितानिव ॥ इति । एमालावा. २०७२। नन्वेतेषां मिथ्याज्ञानत्वान्न योगिविज्ञाने दृष्टान्तत्वं युक्तम् , न स्फुटाभासमात्रतया दृष्टान्तत्वोपपत्तेः, न हि शब्दघटयोरपि सर्वात्मना तुल्यत्वम् , तत्र कामशोकादिभावनाभ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति नेतरेषां तदभावात , स्फुटाभासत्वं तूभयत्रापि तुल्यम् ।
नन्वभ्यासो ऽपि क्रियमाणे नात्यन्तमपूर्वमतिशयमावहति लङ्घनाभ्यासवत्, योऽपि हि प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति सोऽपि कतिपयपदपरिमितमवनितलमभिलङ्घयति न तु पर्वतमम्बुधिं वेति,
प्रातिभज्ञाननिरूपणम्उच्यते
लङ्घनं देहधर्मत्वात्कफजाड्यादिसम्भवात् । मा गात्प्रकर्ष ज्ञाने तु तस्य कः प्रतिबन्धकः ।। लङ्घनादौ तु पूर्वद्युः प्रयत्नसमुपाजितः । न देहे ऽतिशयः कश्चिदन्येद्य रवतिष्ठते । तत्र केवलमभ्यासात्प्रक्षये कफमेदसोः । शरीरलाघवं लब्ध्वा लङ्घयन्ति यथोचितम् ।। इह विज्ञानजन्यस्तु संस्कारो व्यवतिष्ठते । क्रमोपचीयमानो ऽसौ परातिशयकारणम् ।। यथानुवाकग्रहणे संस्थाऽभ्यसनकल्पितः । स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ यथा वा पुटपाकेन शाध्यमानं शनैः शनैः । हेमनिष्प्रतिकाशं तद्याति कल्याणतां पराम ।। १३ न्या०