________________
न्यायमार्याम
तथैव भावनाभ्यासाद् योगिनामपि मानसम् । ज्ञाने सकलविज्ञयसाक्षात्कारे क्षमं भवेत् ॥ अस्मदादेश्च रागादिमलावरणधूसरम् । मनो न लभते ज्ञानप्रकर्षपदवी पराम् ।। प्रत्यूहभावनाऽभ्यासक्षपिताशेषकल्मषम् । योगिनां तु मनः शुद्धं कमिवार्थ न पश्यति ।। यथाच तेषां रागादि प्रमाणमवकल्पते । तथा ऽपवर्गचिन्तायां विस्तरेणाभिधास्यते ।। तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् । निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ।। अपि चानागतं ज्ञानमस्मदादेरपि क चित् । प्रमाणं प्रातिभं वो मे भ्राता ऽऽगन्तेति दृश्यते ।। नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम ।। क चिद्वाधकयोगश्चेदस्तु तस्याप्रमाणता यत्रापरेधुरभ्येति भ्राता तत्र किमुच्यताम् ।। काकतालीयमिति चेन्न प्रमाणप्रदर्शितम् ।
वस्तु तत् काकतालीयमिति भवितुमर्हति ।। नन्वनर्थजमिदं ज्ञानं भ्रातुस्तजनकस्य तदानीमसत्त्वात् , स्यादेतदेवम्यदि तदाऽस्तित्वेन भ्रातरं गृह्णीयात् , किं तु भाविनमेनं गृह्णाति भावित्वं च तदस्यास्त्येवेति कथमनर्थ तज्ज्ञानम् ।
ननु भावितया ग्रहणमघटमानं भावित्वं हि नाम सावधिः प्रागभावः अभावस्य च भावेन भ्रात्रा सह कः सम्बन्धः, वस्त्ववस्तुनोविरोधात, तदेतदसम्यक, तद्देशसंबन्धस्य तत्र प्रागभावो न तु धर्मिणः, स हि विद्यते एव प्रागभावतः, स च कुतश्चिद्भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्त. नागमन विशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति, तस्मादनर्थज. स्वाभावात्प्रमाणं प्रातिभम्, प्रमाणं च सत्प्रत्यक्षमेव न प्रमाणान्तरम्, शब्दलि. गसारूप्यनिमित्तानपेक्षत्वात् ।।
ननु प्रत्यक्षमपि मा भूदिन्द्रियानपेक्षत्वात् , मैवम् मनस एव तत्रेन्द्रिय त्वात् , पूर्वोत्पन्नचाक्षुषविज्ञानविशेषणस्य बाह्यस्य वस्तुनो मनो ग्राहकमिति नान्धाद्यभाव इत्युक्तम् , शब्दाद्युपायान्तरविरतौ च जायमानमनवद्यं ज्ञानं मा. नसं प्रत्यक्षं भवति सुरभि केतककुसुमं मधुरा शर्करेति ज्ञानवदित्यप्युक्तम् , अत एव नानियतनिमित्तकं ज्ञानं प्रत्यक्षातिरिक्तस्यानाम्नः प्रत्ययस्याभावात् ,