________________
प्रमाणमकरणम्
९९
वाक्यप ११३०न
‘ऋषीणामपि यज् ज्ञानं तदप्यागमपूर्वकम्' इति हि वदन्ति, आगमप्रहणं च निदर्शनार्थम, अनुपायस्य ज्ञानस्य तेषामसत्त्वात् न च सिद्धदर्शनं प्रतिभाऽ स्मदादेरपि भावात् तस्मान्न प्रमाणान्तरं प्रातिभम् अपि तु प्रत्यक्षमेव
"
"
ननु प्रत्यक्षमपि नेदं भवद्धि वर्त्तमानैकविषयम्, यथोक्तम् 'संबद्ध ' वर्त्तमानं च गृह्यते चक्षुरादिनेति तथा एष प्रत्यक्षधर्मश्व वर्तमानार्थतयैवेति” मैवम्, अनागतप्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात्, 'रजतं गृह्यमाहि चिरस्थायीति गृह्यते' इति भवानेवावोचत् तस्मात्प्रत्यक्षमनागतग्राहि वो मे भ्राता ऽऽगन्तेति सिद्धम् एवं चास्मदादीनामिवानागते भ्रातरि योगिनां भविष्यति धर्मे प्रत्यक्षं प्रवत्स्यतीति, तस्माद्यत्सर्वज्ञनिषेधाय कथ्यते - यज्जातीयैः प्रमाणस्तु यज्जातीयार्थदर्शनम् ।
"
भवेदिदानीं लोकस्य तथा कालान्तरे ऽप्यभूदिति ॥
तदपास्तं भवति, तत्रैतत्स्यात्, सर्वज्ञता योगिनां किमेकेन ज्ञानेन बहुभि - सर्वा, न तावदेकेन न ह्येकस्मिज्ञाने परस्परविरोधिनो ऽर्थाः शीतोष्णवदवभासते, नापि बहुभिः तानि हि क्रमेण वा भवेयुर्युगपद्वा न युगपज्ज्ञानानि सम्भवन्ति सूक्ष्मान्तःकरणसापेक्षत्वात्, क्रमभाविभिस्तु, ज्ञानैरशेषत्रिभुवनकुहर निहितनिखिलपदार्थसार्थ साक्षात्करणमेषां मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा योगिनः, उच्यते, युगपदेकयैव बुद्ध्या सर्वत्र सर्वानर्थान् द्रक्ष्यन्ति योगिनः,
यत्तु विरुद्धत्वादिति तदप्रयोजकम्, विरुद्धानामपि नीलपीतादीनामेकत्र चित्रप्रत्यये भासनात्, एकत्र च मेचकप्रत्यये सन्निहितपदार्थव्यतिरिक्तसकलवस्त्वभावग्रहणं पूर्वस्य (१)दर्शितत्वात् शीतोष्णयोरपि क चिदवसरे भवति युगपदुपलम्भस्तद्यथा प्रतपति हुतवहविस्फुलिङ्गनिकरानुकारिकिरणे तरुणोष्मणि ग्रीष्मे हिमशकल शिशिरपयसि सरसि निमग्ननाभिदध्नदेहस्य पुंसो युगपदेव सरः सलिलसूर्यातपवर्तिनौ शीतोष्णस्पर्शावनुभवपथमवतरतः,
नन्वेकेन ज्ञानेन सर्वानर्थान् भूतभाविनः परोक्षानपि पश्यन्तो योगिनः कथमखिलत्रैलेाक्यवृत्तान्तदर्शिनः सकलजगद्गुरोरीश्वराद्विशिष्येरन् अस्ति विशेष ईश्वरस्य तथाविधं नित्यमेव ज्ञानं योगिनां तु योगभावनाभ्यासप्रभवमिति । ननु नादृष्टपूर्वे ऽर्थ क चिद्भवति भावना | आगमात् परिछिन्ने धर्मे भावनया ऽपि किम् ।।
चोदनैव धर्मे प्रमाणमिति सावधारणप्रतिज्ञार्थः प्रथममागमादवगतधर्मस्वरूपेषु सत्स्वपि योगिषु न विप्लवत एवेति, उच्यते योगिष्वस्त्येवायं प्रकारः, पश्चादपि प्रवर्त्तमाने धर्मप्राहिणि प्रत्यक्षे चोदनैवेत्यवधारणं शिथिलीभवत्येव ।
(१) ग्रहणस्य पूर्वमिति युक्तः पाटः ।
,