________________
न्यायमञ्जर्याम्
अपि चेश्वरज्ञानं सांसिद्धिकमेव धर्मविषयं वेदस्य कारणभूतं वक्ष्यामः, तस्मिन्नपि सति न चोदनैवेत्यवधारणार्थसिद्धिः, तस्मान्न धर्मग्राहकं योगिप्रत्यविद्यमानोपलम्भनत्वात्सत्सम्प्रयोगजत्वादित्यादिसाधनमप्रयोजकम् ।
प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः । धर्मोपदेशकः शब्दः शब्दत्वाद् घटशब्दवत् ।। प्रत्यक्षः कस्य चिद्धमः प्रमेयत्वाद् घटादिवत् । इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः ।। तेन निष्प्रतिभयुक्तिसाधितां योगबुद्धिमखिलार्थदर्शिनी ।
किं विडम्बयितुमुच्यते मुधा दुष्टहेतुनिकुरुम्बशम्बरम् ॥ तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम् , लक्षणपरत्वं त्वस्य निरस्तमेव ।
यदपि कैश्चित्प्रत्यक्षलक्षणमुक्तम् , आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यदुत्पद्यते ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षमिति, तदपि त्रयद्वयसन्निकर्षजन्मनां सुखात्मादिज्ञानानामव्यापकमतिव्यापकं च व्यभिचार्यादिबोधानामित्युपेक्षणीयम् ।
सांख्याभिमतप्रत्यक्षलक्षणखण्डनम्ईश्वरकृष्णस्तु प्रतिविषयाध्यवसायो दृष्टमिति प्रत्यक्षलक्षणमोचत् , तदपि न मनोज्ञम् , अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः, यत्त राजा व्याख्यातवान् प्रतिराभिमुख्ये वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षमिति तदप्यनुमानादावस्त्येव, घटो ऽयमितिवदग्निमान् पर्वत इत्याभि. मुख्येनैव प्रतीतेः, स्पष्टता तु सर्वसंविदा स्वविषये विद्यते एव, अथ मन्यसे सामान्यविहितस्य विशेषेण बाधादनुमानादिव्यावृत्तिः सेत्स्यति सामान्येनाध्यवसाय उत्सृष्टः स लिङ्गशब्दाभ्यां विशेषित इति तदितरो ऽध्यवसायः प्रत्यक्ष. मिति स्थास्यति, यद्येवं प्रत्यक्षलक्षणमिदानीमव्याकरणीयमेव, शब्दलिङ्गप्रहणे वणिते सति तद्वलक्षण्यादेव प्रत्यक्षं ज्ञास्यते इति, तस्मादिन्द्रियार्थसन्निकर्षों त्पन्नपदोपादानमन्तरेण नानुमानादिव्यवच्छेद उपपद्यते इति इदमपि न प्रत्यक्षलक्षणमनवद्यम् ।
अलमतिविस्तरेण परदर्शनगीतमतो विगतकलङ्कमस्ति न हि लक्षणमक्षधियः । तदमलमक्षपादमुनिनैव निबद्धमिदं हरति मनांसि लक्षणमुदारधियाम् ।।
अथानुमानलक्षणम् --- एवं प्रमाणज्येष्ठे ऽस्मिन् प्रत्यक्ष लक्षिते सति । कथ्यते ऽवसरप्राप्तमनुमानस्य लक्षणम् ॥