________________
प्रमाणप्रकरणम् तत्पूर्वकं च त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥५॥ तत्रानुमानस्वरूपं मह ततस्तत्र सूत्रं योजयिष्यामः ।
पञ्चलक्षणकाल्लिङ्गाद्गृहीतानियम स्मृतेः ।
परोक्ष लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ।। __ अत्रापि लिङ्गविषयं ज्ञानं ज्ञानविषयीकृतं वा लिङ्गं प्रतिबन्धस्मरणसहितं प्रमाणम् , लिङ्गज्ञानं फलम् , लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादिज्ञानं फलमुपवर्णनीयं करणस्य हि प्रमाणत्वमिति स्थितमेवैतत, तत्र परोक्षो ऽर्थो लिङ्गयते गम्यते ऽननेति लिङ्गम् , तच्च पञ्चलक्षणम् , कानि पुनः पञ्च लक्षणानि, पक्षधर्मत्वं सपक्षधर्मत्वं विपक्षाद्यावृत्तिरबाधितविषयत्वमसत्प्रतिप. क्षत्वं चेति, सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः तद्धर्मत्वं तदाश्रितत्वमित्यर्थः, साध्यधर्मयोगेन नितिं धर्मान्तरं सपक्षः तत्रास्तित्वम् , साध्यधर्मसंस्पर्शशन्यो धर्मी विपक्षः ततो व्यावृत्तिः, अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वा ऽनपहरणमबाधितविषयत्वम् , संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वमसत्प्रतिपक्षत्वम् , एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गमनुमापकं भवति, एतेषा. मेव लक्षणानामेकैकापायात्पञ्च हेत्वाभासा वक्ष्यन्ते, यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः, यथा नित्यः शब्दः चाक्षुषत्वात् , साध्यविपर्ययव्याप्तस्तु विरुद्धः स यथा नित्यः शब्दः कृतकत्वाद् आकाशवत् , सपक्षे सत्वं यस्य नास्ति सेो ऽनैकान्तिकः यथा नित्यः शब्दः प्रमेयत्वादिति, यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः यथा ऽनुष्णस्तजाऽवयवी कृतकत्वाद् घटवदिति, यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः यथा अनित्यः शब्दो नित्यधर्मानुपलब्धेघंटवत् नित्यः शब्दो ऽनित्यधमानुपलब्धेराकाशवदिति, सो ऽयमेतेषु पञ्चसु लक्षणेष्वविनाभावो लिङ्गस्य परिसमाप्यते,
ननु च त्रिलक्षणके हेतावविनाभावः परिसमाप्यते न च तथाविधे बाधा सम्भवति बाधाविनाभावयाविरोधात् , यच्चेदमग्न्यनुष्णत्वसाधने कृतकत्वं त्रिलक्षणमपि बाधकविधुरितविषयमित्युदाहृतं तदसमीक्षिताभिधानम् , अत्र
लक्षण्यानुपपत्तेः, पक्षधर्म एव तावदयं न भवति प्रत्यक्षाद्यनिराकृतो हि पक्ष उच्यते, न चायमीहश इत्यपक्ष एव, तद्धमों हेतुः कथं पक्षधर्मः स्यात् , नाप्ययमन्वयी हेतुरन्वयग्रहणसमये एव तद्विप्लवावधारणात्, अन्वयो हि गृह्यमाणः सर्वाक्षेपेण यद्यत्कृतकं तत्तदनुष्णमित्येवं गृह्यते ततश्च तद्ग्रहणसमये एवायमुणे ऽपि कृतक इति हृदयपथमवतरति तनूनपादिति कथमन्वयग्रहणम् ।
यदि त्वनलमुत्सृज्य घटादावन्वयग्रहः । नान्तव्याप्तिगृहीता स्यात्साध्यसाधनधर्मयोः ।।