________________
न्यायमञ्जर्याम्
ततश्चैवंविधाद्धेतोः स्वसाध्यनियमोज्झितात् ।
साध्याभिलाष इत्येवं षण्ढानुनयदोहदः ।। अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्य. म् , अपि च सिषाधयिषितधर्मवैपरीत्येन वह्नः प्रत्यक्षतो निश्चयाद् वस्तुवृत्तेन स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति, तस्मात्रैलक्षण्यापायादेव हेत्वाभासो ऽयमिति न रूपान्तरमबाधितविषयत्वमपेक्षते कथं चेदमबाधितत्वं निश्चीयते ।
न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः । सर्वात्मना हि नास्तित्वं विद्यः कथमयोगिनः ।। अनिश्चिते तदङ्गे च न हतोतुता भवेत् ।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे । तस्मादबाधितत्वं रूपान्तरमवचनीयमिति,
अत्राभिधीयते, यदुक्तम् अन्वयग्रहणं सर्वाक्षेपेणेति तद्ग्रहणवेलायामेवसिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरिस्फुरणादन्वयशून्योऽयं हेतुरिति तदहृदयंगमम् , अन्वयः सत्यं सर्वाक्षेपेण गृह्यते न पुनरेकैकधर्मिसमुल्ले. खेन, एवं हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैफल्यमित्थं भवेदग्निमतां धूमवतां सर्वधर्मिणामन्वयावगमकाले एव गृहीतत्वात् ।
धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते ।
न पुनः पर्वते ऽरण्ये गृहे वेत्येवमिष्यते ॥ एवं च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति ।
न चैवं सति वक्तव्यं षण्ढानुनयमार्गणम् ।
न हि तद्वमित्येवं व्याप्तिग्रहणमिष्यते ।। सामान्येन च व्याप्तिर्गृहीता सती सिषाधयिषितधर्म्यपेक्षायां सैवान्ताप्तिरुच्यते, यैव च नगलग्नाग्न्यनुमानसमये तद्वयतिरिक्तकान्तारादिप्रदेशत्तिनी बहिर्व्याप्तिरभूत्सव कालान्तरे कान्तारवर्तिनि वह्नावनुमीयमाने ऽन्तर्व्याप्तिरव. तिष्ठते, तदिहापि यत्कृतकं तदनुष्णमिति सामान्यतः परिच्छेदान्न तदानीमनलोन्मेष इति सिद्धो ऽन्वयः, व्यतिरेको ऽपि कार्ये तेजोऽवयविनि पक्षीकृते कृतकत्वस्य तेजःपरमाणुभ्यो विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव नास्तीति तदभावात्सुतरां तत्रावृत्तिर्भवतीति, न हि सपने इव विपक्षे वृत्तिरिष्यते येन यत्नतः तत्सिद्धये यतेत, अग्निरेव विपक्ष इति चेन्मवम् , न हि पक्ष एव विपक्षो भवितुमर्हति,
ननु वस्तूनामद्विरूपत्वात्पक्षा नाम परमार्थतो नास्त्येव, साध्यधर्माऽधिक. रणभतश्चेत्सो ऽर्थस्तत्सपक्ष एव विपर्यये तुन विपक्षतामतिवर्तते, न च क्र.