________________
प्रमाणप्रकरणम्
मद्वययोगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति, तदयुक्तम् अनुमानोच्छेदप्रसङ्गात्, अद्विरूपत्वे ऽपि वस्तूनां निसर्गविषयीकृतोऽर्थः कश्चित्पक्ष एषितव्यः, तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् तदस्य पक्षस्य सतोऽपि सपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत,
ननु पर्वतादिर्धर्मी न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र निश्चितः तेजोऽव. यवी त्वनुष्णत्ववपरीत्येन प्रत्यक्षतो निश्चित इति तत्किमिदानी पर्वतादिरग्निमत्तया निश्चितः तथाभ्युपगमे वा किमनुमानेन ।
ननु न पर्वतोऽग्निमत्तया निश्चितो नापि तद्वैपरीत्येन किं तु संदिग्ध एवास्ते, यद्येवं संदिग्धे ऽपि विपक्षे वर्तमानो धूमादिरहेतुरेव स्यानि. श्चितविपक्षवृत्तिवत्संदिग्धविपक्षवृत्तेरप्यहेतुत्वात्सर्वमनुमानमुत्सीदेत् , तस्मा. पक्षेण व्यभिचारचोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः, यत्पुनरभिहितम् , अनिराकृतपक्षवृत्तित्वमस्य नास्तीति तत्सत्यम् , वयमप्यमुं पक्षमध्यक्षबाधितमिच्छाम एव, यत्तु न पक्षामात्रपर्यवसितो बाधः किं तु हेतुमपि स्पृशति ।
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥ स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि । साध्यापहारद्वारेण हेतुर्भवति बाधितः ।। अबाधितानुमेयत्वमत एवास्य लक्षणम् । ननु हेतुरसिद्धो ऽयं ज्वलने वृत्तिसंभवात् ।। यत्तु वाधितता ज्ञातुं शक्या नेति विकल्पितम् । पक्षस्यापि महाभाग कथं तां प्रतिपत्स्यसे ।। प्रयत्ने क्रियमाणे ऽपि यदि बाधा न दृश्यते ।
नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ।। अतस्त्रिलक्षणे ऽपि हेतौ बाधसम्भवादबाधितत्वं रूपान्तरं वक्तव्यम् , एवं च यदुच्यते बाधाविनाभावयोविरोधादिति तत्कथं चिद्युक्तं कथं चिदयुक्तम् , पञ्चलक्षणके लिङ्गे यः परिसमाप्तो ऽविनाभावः तत्र नास्त्येव बाध इत्येवं युक्तमेतत् त्रिलक्षणकलिङ्गाविनाभावाभिप्रायेण त्वयुक्तमेतदित्यलं प्रसङ्गन । _ नियमस्मृतेरिति वित्रियतां को ऽयं नियमो नाम, व्याप्तिरिविनाभावो नि. त्यसाहचर्यमित्यर्थः,
तादाम्यतदुत्पत्योबौद्धाभिमतव्याप्तिग्रहोपायत्वकथनम् -
आह नैतावत्येव विरन्तुमुचितं तस्य तदविनाभावित्वमित्यत्र हि निमित्तमन्वेषणीयं तार्किकैः, तच्च तादात्स्यतदुत्पत्तिरूपमीक्षितवन्तो भिक्षवः, यो हि यदात्मा भावः स कथं तमुत्सृजति वृक्षास्मिकैव हि शिंशपा