________________
१०४
न्यायमअर्याम्
तेन वृक्षत्वमनुमापयति, सो ऽयं स्वभावहेतुरुच्यते वृक्षो ऽयं शिंशपात्वादिति तत्र तादात्म्यं प्रतिबन्धः, कार्य च नाम कारणाधीनात्मलाभमेव भवति न कारणानपेक्षामिति तदुपलभ्यमानं तदनुमापयत्यग्निरत्र धूमादिति कार्यहेतो तदुत्पत्तिप्रतिबन्धः, एवं हि द्विविद्धं प्रतिबन्धमनुमयाव्यभिचारनिबन्धनमनुक्त्वा केवलसाहचर्यनियममात्रवर्णनं यत् प्रसारिका सैवेति,
बौद्धमतखण्डनम् - उच्यते पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता वरं न सूक्ष्मदृष्टि. भिरुत्प्रेशिताः तादात्म्यादिप्रतिबन्धाः, तदात्म्ये तावद्गमकाङ्गे हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपपादः, न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुम. हति, तत्र लिङ्गबुद्धो लिङ्गं प्रतिभासते न वा, अप्रतिभासे तबुद्धया तदग्रहणास्कथं तस्य तदात्मकत्वम् , प्रतिभासे तु लिङ्गवत्प्रत्यक्ष एव सोऽर्थ इति किमनु. मानेन, विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेद् न, तत्स्वरूपग्रहणे विपरीतारोपणावसराभावात् , न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारोप: प्रवत्तते तत्र त दादुपपद्येतापि न हि शिरःपाण्यादय एव पुरुष इति तद्ग्रहणे ऽप्यपुरुषारोपः कामं भवेत, इह वृक्षत्वशिंशपात्वयोरभेदाच्छिशपात्वग्रहणे सति का कथा वृक्षेतरसमारोपस्य, अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणा. द्विशेषानध्यवसायात्कदा चिदशिंशपारोप: स्याद् न तु शिशपात्वग्रहणे सति अवृक्षत्वसमारोपो युक्तः ।
प्रमातुः शिशपात्वं हि यस्य प्रत्यक्षगोचरः।
परोक्षं तस्य वृक्षत्वमिति नातीव लोकिकम् ॥ किं च साध्यसाधनयोरव्यतिरेकाद् यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिंशपांत्वमनुमीयेत तादात्म्याविशेषात् , तथा च प्रयत्ननान्तरीयकत्वेनानित्यत्वं साध्यते तद्वदनित्यत्वेनापि तत्साध्येत, ततश्च सपक्षव्याप्त्यव्या. प्तिभ्यां कृतकत्वप्रयत्ननान्तरीयकत्वयोर्यो भेद उक्तः स होयेत ।
ननु चान्यः सम्बन्धः अन्यश्च प्रतिबन्धः द्विष्ठः सम्बन्धः प्रतिबन्ध. स्तु परायत्तत्वलक्षणः, तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिंशपात्वे प्रयत्ननान्तरीयकत्वमप्यनित्यत्वे नियतं न त्वनित्यत्वं तत्रेति तथा धूमस्याग्नौ प्रतिबन्धो न त्वग्नेधूमे, सत्यमेवं किं त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेद् न तादात्म्यम् , तादात्म्ये हि यथा शिशपा शिंशपां विना न दृश्यते तथा वृत्तत्व. मपि शिंशपारहितं न दृश्येत, दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वं विद्युदादौ च प्रयत्ननान्तरीयकत्वरहितमनित्यत्वमुपलभ्यते इति कथमभेदः ।
विना साधनधर्मेण साध्यधर्मा ऽयमस्ति हि ।